This page has not been fully proofread.

न्यायकोशः ।
 
२९५
 
योग्य विशेषगुणयोगेनैवात्मनः ( जीवस्य ) प्रत्यक्षम् न तु केवलम्
अहम् इत्याकारकम् इति ( त० व० प्रमाणपरि० ३ को० ५१)
( मु० १ आत्म० पृ० १०७ ) ( वै० ३।२।१८ ) ( भा० १०
लो०
१० ५० ) । जीवस्य प्रत्यक्षत्वे विप्रतिपत्तौ तु अनुमानमेव इन्द्रिया-
र्थमिन्नस्य जीवस्य सद्भावे प्रमाणम् । तत्र लिङ्गमुच्यते । प्राणापान-
निमेषोन्मेषजीवनमनोगतीन्द्रियान्तरविकाराः सुखदुःखेच्छाद्वेषप्रयत्नाश्चा-
त्मनो लिङ्गानि ( वै० ३।२।४ ) । सुषुप्तिदशायामपि प्राणापानयोरू-
र्ध्वाधोगत्योरनुकूलं प्रयत्नान्तरम् जीवनयोनिरूपम् अस्त्येव इति ।
एवम् निमेषोन्मेषावपि शरीराधिष्ठातारमनुमापयतः इत्यादि ( बै०
उ० ३।२।४ ) । आत्मेन्द्रियार्थसंनिकर्षाद्य निष्पद्यते तदन्यत् ( वै०
३।१।१८ ) । इच्छा प्रणिधानम् प्राणापानौ निमेषादिः क्षतसंरोहणम्
इत्यादीनि लिङ्गानि आत्मानम् ( जीवात्मानम् ) गमयन्ति ( त० व०
लो० २ - १४ पृ० १३८ ) (भा०प० लो० ४८-५१) । इन्द्रि-
यार्थप्रसिद्धिरिन्द्रियार्थेम्योर्थान्तरस्य हेतुः ( वै० ३११।२ ) । अनुमा-
नप्रयोगस्तु रूपादिसाक्षात्कारो द्रव्याश्रितः गुणत्वाद्रूपवत् इत्यनुमानेने-
तरबाधसहकृतेनात्मनः सिद्धि: ( वै० वि० ३११ । २ ) । प्रसिद्धिः कचि-
दाश्रिता कार्यत्वात् घटवत् गुणत्वाद्वा क्रियात्वाद्वा । सा च प्रसिद्धिः
करणजन्या क्रियात्वात् छिदिक्रियावत् । यञ्च प्रसिद्धेः करणं तदि-
न्द्रियम् । तच्च कर्तृप्रयोज्यम् करणत्वात् वास्यादिवत् । तथा यत्रेयं
प्रसिद्धिराश्रिता यो घ्राणादीनां करणानां प्रयोक्ता स आत्मा ( बै० उ०
३ । १ । २ ) । बुद्ध्यादयः पृथिव्यायष्टद्रव्यातिरिक्तद्रव्याश्रिताः पृथि-
व्याद्यष्टद्रव्यानाश्रितत्वे सति गुणत्वात् यस्तु पृथिव्याद्यष्टद्रव्यातिरिक्त-
द्रव्याश्रितो न भवति नासौ पृथिव्याद्यष्टद्रव्यानाश्रितो गुणो भवति यथा
रूपादि इति केवलव्यतिरेक्यनुमानम् ( त० मा० प्रमेय० पृ० २५) ।
[ख] इन्द्रियाद्यधिष्ठाता । इन्द्रियाणां शरीरस्य च परंपरया चैतन्य -
संपादक इत्यर्थः ( मु० १ आत्म० पृ० ९६ ) । तन्त्रान्तरे तु
इन्द्रियाणामधिष्ठात्र्यो देवता उक्ताः । ता यथा दिग्वातार्कप्रचेतो-
श्विषहीन्द्रोपेन्द्रमित्रकाः इति ( शारदाति ० ) । वैकारिका दिगाद्याच