2023-02-20 00:54:58 by ambuda-bot
This page has not been fully proofread.
२९४
न्यायकोचः ।
O
जिज्ञासायां घूमवत्त्वात् इत्युत्तरं च ( दीधि० हेतु पृ० १७६)
इत्यादौ । [ ख ] अवान्तरधर्मप्रकारकज्ञानेच्छा । इयं च विशे-
षजिज्ञासेत्युच्यते ( ग० सव्य० ) । यथा घटे द्रव्यत्वेन ज्ञातेपि
कोसौ इति विशेषतो जिज्ञासोदेति । [ग] विशेषज्ञानगोचरेच्छा । तच
ज्ञानं स्वनिष्ठम् परनिष्ठं वा । तेन जल्पकथायां परं प्रति न प्रश्नानुपपत्तिः
।
( म० प्र० ३ पृ० ३४ ) । २ विचारः । यथा अथातो धर्मजिज्ञासा
( जै० सू० १ । १ । १ ) ॐ अथातो ब्रह्मजिज्ञासा ॐ ( ब्र० सू०
१।१।१ ) इत्यादौ । यथा वा दुःखत्रयाभिघाताज्जिज्ञासा तदवघातके
हेतौ ( सां० का० ) इत्यादौ विचारो जिज्ञासापदार्थः ।
-
←
जिनः – अर्हन्नामकस्तत्त्वज्ञानोपदेष्टा । यथा इस्तिना पीड्यमानोपि न
गच्छेज्जैनमन्दिरम् इत्यादौ जिन: ( वाच० ) । जिनलक्षणं तु सर्व-
दर्शनसंग्रहे उक्तम् । तद्यथा बलभोगोपभोगानामुभयोर्दानलाभयोः ।
अन्तरायस्तथा निद्रा मीरज्ञानं जुगुप्सितम् ॥ हिंसा रत्यरती रागद्वेषा-
वविरतिः स्मरः । शोको मिथ्यात्वमेतेष्टादश दोषा न यस्य सः ॥ जिनो
देवो गुरुः सम्यक्तत्त्वज्ञानोपदेशकः ( सर्व० सं० पृ० ८६-८७
आई० ) । तन्मतादिकं तु स्याद्वादादिकम् जीवस्य देहपरिमाणरूप
त्वनिरूपणादिकं च सर्वदर्शनसंग्रहे आईतदर्शने अन्यजैनग्रन्थेषु च
द्रष्टव्यम् ।
-
जीव: - १ ( आत्मा ) [ क ] यो घ्राणादीनां करणानां प्रयोक्ता स आत्मा
( वै० उ० ३।११२ ) । जीवात्मैवायं क्षेत्रज्ञादिपदवेदनीयः ( सि०
च० १ आत्म० पृ० १२ ) । जीवलक्षणं च इच्छाद्वेषप्रयत्नसुख-
दुःखज्ञानान्यात्मनो लिङ्गम् ( गौ० ११ ११० ) इति । सुखदुःखादिकम्
( त० दी० १ पृ० ११ ) इति वा । जन्यज्ञानाधिकरणत्यम् ( सि०
च० १ पृ० १२ ) इति वा । जीवसद्भावे प्रमाणं प्रत्यक्षमेव । जीवस्य
अहं सुखी अहं दुःखी इत्यादिमानसप्रत्यक्षविषयत्वात् इति नैयायिकाः
( प्र० प्र० प्रमे० १० १० ) ( मु० १ ) । जीवो न मानसप्रत्यक्ष-
विषयः इति वैशेषिका आहुः । अयमाशयः अहं सुखी इत्याद्याकारकम्