This page has not been fully proofread.

न्यायकोच! ।
 
समर्थः अवयवव्यायः सक्कदुपदेशव्यशयन्श्व धर्मविशेष इत्यायुः ।
मोयते । भाइतिमहणा जातिर्लिङ्गानां च नः सर्वभा । सदा-
ख्यातनिर्ग्राह्या गोत्रं च चरणैः सह ॥ इति ( महाभा० ) । आकृतिग्रहणे-
त्यस्य अनुगतसंस्थानव्यङ्ग्येत्यर्थः । यथा मनुष्यत्वपशुत्वघटत्वादि-
जातिः । लिङ्गानां च न सर्वभाक् सकृदाख्यातनिर्माद्येत्यस्य असर्वलि
ङ्गत्वे सति एकस्यां व्यक्तौ कथनाव्यत्त्यन्तरे कथनं विनापि सुग्रहेत्यर्थः ।
यथा ब्राह्मणत्वक्षत्रियत्वादिजातिः । तत्र ब्राह्मणा द्विविधाः गौडद्राविड-
भेदात् । सारस्वताः कान्यकुब्जाः गौडा उत्कला मैथिलाश्चेति प
गौडाः । गुर्जरा महाराष्ट्रीयाः कर्नाटकास्तैलंगाः केवलद्राविडाश्चेति
पञ्च द्राविडाः । गोत्रं च चरणैः सहेत्यस्य अपत्यप्रत्ययार्थः शाखाध्येतृ-
रूपश्चैतावर्थी जातिरित्यर्थः । यथा औपगवी कठी बहुची इति । [ रु ]
संबन्धिमेदात्सत्तैम मिद्यमाना गवादिषु । जातिरित्युच्यते तस्यां सर्वे
शब्दा व्यवस्थिताः ॥ तां प्रातिपदिकार्थे च धात्वर्थं च प्रचक्षते । सा
नित्या सा महानात्मा तामाहुस्त्वतलादयः ॥ ( सर्व० सं० पृ० ३०४
पाणि० ) । शुद्धसंकीर्णभेदेन प्रत्येकं द्विविधा ब्राह्मणत्वादिर्जातिरिति
मन्वादयः । आकृतिव्यजयमेव सामान्यं जातिरिति प्राभाकराः । तन्मते
गुणकर्मणोर्जातिर्नास्ति इति बोध्यम् (वै० वि० १ । २ । ३ ) । २ स्वभाव
इति काव्यज्ञाः । ३ मात्राकृतं छन्दो जातिरिति वृत्तशास्त्रज्ञाः । ४
दृष्टजातिशेषजातिविश्लेषजातिप्रभृतयः प्राचीनानामिष्टकर्मसंज्ञा भेदाः इति
लीलावतीकाराः ( वाच० ) । ५ जन्मेति धर्मज्ञाः । तत्रोक्तम् आचार्य-
स्वस्य यां जातिं विधिवद्वेदपारगः । उत्पादयति सावित्र्या सा सत्या
साजरामरा ॥ इति ( मनु० अ० २ श्लो० १४८ ) । ६ जातिवाचकः
शब्दो जातिरिति शाब्दिकाः । ७ [ क ] साधर्म्यवैधर्म्याम्यां प्रत्यव
स्थानं जातिः ( गौ० ११२११८ ) । तदर्थच व्याप्तिनिरपेक्षाम्यां
साधर्म्यवैधर्म्याम्यां प्रत्यवस्थानं दूषणाभिधानं जातिः इति । व्याप्तिमिर-
पेक्षतया दूषणाभिधानमित्येव वाष्यम् । वेन च संदर्भेण दूषणासमर्थत्वं
स्वव्याघातकत्वं वा दर्शितम् ( गौ० वृ० १ । २।१८ ) । मन्त्र चियते ।
इयं चः जातिर्हेत्वाभासदोषदेशनाभासा इति प्रतिभाति । इयं जातिर्निस्नुयो-