2023-02-20 00:54:58 by ambuda-bot
This page has not been fully proofread.
1:
अहत्वार्था ~~ (लक्षणा) [ क ] यत्र वाच्यार्थस्यान्वयाभाबस्तत्र जहती ।
यथा मयाः क्रोशन्तीति ( त० दी० ४ पृ० ३० ) । यथा वा आयु-
घृतम् इत्यादौ ( काव्यप्र० उ० २) । अत्र व्युत्पत्तिः जहत् स्वार्थो
याम् इति ( वाच० )। जहति पदानि स्वार्थ बस्यां सा महस्वार्था
( बै० सा० ) इति वा । अत्रायं नियमः । जहत्स्वार्था च तत्रैव यत्र
रूढिर्विरोधिनी इति ( न्या० म० ख० ४ पृ० १११ । यत्र शक्या-
न्वयबोधे । रूढिः प्रसिद्धिः समुदायशक्तिर्वा । विरोधिनी योगविरोधिनी ।
योगः संबन्धः । मञ्चाः क्रोशन्तीत्यत्र वाच्यार्थस्य क्रोशनकर्तृत्वान्वया-
संभवान्मञ्चपदं मञ्चस्थ पुरुषे लाक्षणिकम् इति ( नील० ४ पृ० ३०) ।
आयुर्घृतमित्यत्रायुः शब्देनायुः साधनस्य बोधनात्स्वार्थस्य शक्यार्थस्य आयु-
षस्त्यागाज्जद्दत्स्वार्थात्वमिति बोध्यम् । तथा चात्र आयु:साधनं घृतम्
इति बोधः । [ ख ] लक्ष्यतावच्छेदकरूपेण लक्ष्यमात्रबोधप्रयोजिका
लक्षणा ( न्या० बो० ४ पृ० २० ) । यथा गङ्गायां घोष इत्यादौ गङ्गा-
पदस्थ तीरे लक्षणा (मु० ४ पृ० १८० ) । [ग] शक्यावृत्तिरूपेण
बोधकतया जहत्स्वार्थेत्युच्यते । यथा तीरत्वादिना गङ्गादिपदस्य बोधक-
त्वम् ( श० प्र० ) । अत्रेदं बोध्यम् । गङ्गापदस्य शक्यार्थे प्रवाहरूपे
घोषस्यान्वॆयानुपपत्तिस्तात्पर्यानुपपत्तिर्वा यत्र प्रतिसंधीयते तत्र लक्षणया
तीरस्य बोधः इति । अत्रायं विशेषः । गङ्गापदशक्यप्रवाहसंबन्धस्य तीरे
सत्त्वात्तादृशशक्यसंबन्धरूपलक्षणाज्ञानाद्गङ्गापदाचीरोपस्थितिः ( तीर-
स्मृतिः ) । ततः शाब्दबोध: ( मु० ४ पृ० १८० ) ( न्या० बो० ४
पृ० २० ) । अन्ये त्वाहुः । यदा गङ्गापदात्तीरत्वेन तीरमात्रबोधस्तदा
जहत्स्वार्यैव लक्षणा । यदा तु गङ्गापदाङ्गङ्गातीरत्वेन गङ्गातीरबोधस्तदा
अजहत्वार्था लक्षणा इति ( दि० ४ पृ० १८० ) । एवमेव मयाः
क्रोशन्ति इत्यादावपि बोध्यम् । तर्कप्रकाशेप्युक्तम् 1 गङ्गायां घोष इत्यादौ
स्वार्थस्य प्रवाहस्य त्यागात् तीरे घोषः इत्येव बोधः । यदि च गङ्गा-
तीरत्वेन बोधः तदा अजहत्स्वार्यैब इति ( त० प्र० ख० ४ पृ० ३९ ) ।
[ घ ] स्वार्थपरित्यागेन परार्थलक्षणा ( त० प्र० ख० ४ १० ३९ ) ।
शाब्दिकाथ शक्यार्थपरित्यागेन इतरार्थलक्षणा जहत्स्वार्था । शक्वार्थ-
३० न्या० को०