2023-02-20 00:54:57 by ambuda-bot
This page has not been fully proofread.
न्यायकोशः ।
●
जरायुजः ॥ इति ( देवीभाग ० ) (बाच ० ) । [ख] गर्भावरणचर्म
( कुल्लूक० १।४३ ) । यथा जरायुणा मुखे छन्ने कण्ठे च कफवेष्टिते ।
वायोर्मार्गनिरोधाच्च न गर्भस्थः प्ररोदिति ॥ ( सुश्रुत० ) इत्यादौ ।
[ ग ] या तु चर्माकृतिः सूक्ष्मा जरायुः सा निगद्यते ( देवी-
भाग ० ) ।
२४४
जर्तिलाः – आरण्यास्तिला: ( जै० न्या० मा० १०८ अधि० ४ ) ।
जलम् - १ आपः इत्यस्यार्थोनुसंधेयः । अत्रोच्यते अपां शैत्यं तथा वेदो
द्रवत्वं स्नेहसौम्यता । जिह्वाभिष्यन्दनं चापि भौमानां स्रवणं तथा ॥
चतुर्थमापो विज्ञेयं जिह्वाध्यात्मं प्रचक्षते । अधिभूतं रसास्तत्र सोमस्तत्रा-
घिदैवतम् ॥ ( भा० आश्व० ) इति । अपां परिणामश्छान्दोग्ये समा
म्नायते । आपः पीतास्त्रेधा विधीयन्ते । तासां यः स्थविष्ठो धातुस्तन्मूत्रं
भवति । यो मध्यमस्तल्लोहितम् । योणिष्ठः स प्राणः इति ( वाच० ) ।
अत्रेदं बोभ्यम् । हिमकरकादीनां सांसिद्धिकद्रवत्वमस्त्येव । न तु नैमित्ति-
कद्रवत्वम् । अदृष्टविशेषेण घनीभावात्सांसिद्धिकद्रवत्व प्रतिबन्धमात्रम्
( सिं० च० १ पृ० ७ ) । २ लग्नावधिकं चतुर्थस्थानमिति कार्ता-
न्तिका आहुः । ३ पूर्वाषाढानक्षत्रमिति मौहूर्तिका आहुः ।
जल्पः - ( कथा ) [क] यथोक्तोपपन्नश्छल जाति निग्रहस्थानसाधनोपा-
लम्भो जल्पः ( गौ० १ । २ । २ ) । यथोक्तोपपन्न इति । प्रमाणतर्कसाधनो-
पालम्भः सिद्धान्ताविरुद्धः पञ्चाबयवोपपन्नः पक्षप्रतिपक्षपरिग्रहः ।
छलजातिनिग्रहस्थानसाधनोपालम्भ इति । छलजातिनिग्रहस्थानैः साधन-
मुपालम्भचास्मिन्क्रियत इति । एवं विशेषणो जल्पः (वात्स्या० १ । २ । २) ।
[ख] उभयपक्षसाधनवती विजिगीषुकथा ( गौ० १० ११२१२ )
( त० भा० पृ० ४४ ) ( त० दी० पृ० ४३ ) ( सर्व० सं० पृ०
२३९ अक्ष० ) । [ ग] स च छलादिसंपन्नो जल्पोस्य विजयः फलम्
इति ( ता० २० लो० ७८) । जल्पश्च यथासंभवं सर्वनिग्रहाणाम-
धिकरणम् । परपक्षे दूषिते स्वपक्षस्थापनप्रयोगावसानश्च भवतीति
बोध्यम् ( त० मा० पृ० ४४ ) ।