2023-02-20 00:54:57 by ambuda-bot
This page has not been fully proofread.
न्यायकोशः ।
संयोगे त्वाद्यत्वमुक्तमेव । [च ] जातिविशिष्टाभिर्देहेन्द्रियमनोहंकार-
बुद्धिवेदनाभिः पुरुषस्याभिसंबन्धः इति सांख्या आहुः (सांख्य० कौ० ) ।
[ छ ] स्वादृष्टोपनिबद्धशरीरग्रहणमिति केचित् ( वाच० ) । [ ज ]
निकाय विशिष्टाभिः शरीरेन्द्रिय बुद्धिवेद नाभिः संबन्धो जन्म (न्या० वा० ) ।
जन्यत्वम् – यदधीनो यस्य समयसंबन्धः यद्व्यतिरेक प्रयुक्तो यद्व्यतिरेकश्च
तत्त्वम् ( मू० म० १ ) । यथा जन्यानां जनकः काल : (भा०प०
लो० ४६ ) इत्यादौ घटपटादीनां मृत्तन्त्वादिजन्यत्वम् । अधिकं तु
कार्यशब्दव्याख्यानावसरे संपादितं तत्र द्रष्टव्यम् ।
जय: - -१ ग्रहणावच्छिन्नपराभवः । यथा शत्रुं शतानि जयतीत्यत्र जयत्यर्थः ।
पराभवश्च तिरस्कारः । अत्र शतस्य ग्रहणानुकूलो यः शत्रुकर्मकः परा-
भवः तत्कर्ता इत्येवं बोध: ( श० प्र० श्लो० ७३ पृ० ९८) । २ परा-
पेक्षयोत्कर्षलाभः । ३ वशीकरणम् । यथा इन्द्रियजय इत्यादौ ( वाच० ) ।
जयनम् – जयशब्दवदस्यार्थोनुसंधेयः ।
जयन्ती – १ नन्दा मार्गशिरे शुक्का सप्तम्यानन्ददायिनी । जयन्ती नाम
सा प्रोक्ता पुण्या पापहरा स्मृता ॥ ( पु० चि० पृ० १०४ ) ।
२ श्रावणस्य तु मासस्य कृष्णाष्टम्यां नराधिप । रोहिणी यदि लभ्येत
जयन्ती नाम सा तिथि: ॥ ( पु० चि० पृ० ११९) ।
-
जयपत्रकम् –( हुकुमनामा इति प्र० ) यथोपन्यस्तसाध्यार्थसंयुक्तं सोत्तर-
क्रियम् । सावधारणकं चैव जयपत्रकमिष्यते ॥ ( मिताक्षरा अ० २
श्लो० ९१ ) ।
जरायु:- [क] गर्भवेष्टनचर्मपुटकम् ( दि० १ पृथिवी० पृ० ७०) ।
यथा जरायुजं मानुषादीनां शरीरम् (मु० १ पृथिवी० पृ० ७० )
इत्यादौ । जरायुजमेदाश्च मनुना ( अ० १ श्लो० ४३ ) दर्शिता यथा
पशवच मृगाश्चैव व्यालाश्चोभयतोदतः । रक्षांसि च पिशाचाश्च मनु-
व्याच जरायुजाः ॥ इति । तत्र व्यालाः सिंहाधा: ( कुल्लू ० ) ।
तल्लक्षणं तु या तु चर्माकृतिः सूक्ष्मा जरायुः सा निगद्यते इति ।
शुकशोणितयोर्योगस्तस्मिन्संजायते यतः । तत्र गर्भो भवेद्यस्मात्तेन प्रोक्तो