This page has not been fully proofread.

२८६
 
न्यायकोशः ।
 
दीनां जडत्वम् । २ वेदग्रहणासामर्थ्य जडत्वमिति धर्मज्ञाः । ३ मन्द-
बुद्धित्वमिति नीतिज्ञाः । ४ मूर्खत्वं चेति काव्यज्ञा आहुः ।
 
-
 
जनकम् – [ क ] कारणबदस्यार्थोनुसंधेयः । कारणत्वं च द्विविधम् । स्वरूप-
योग्यत्वम् फलोपहितत्वम् । आद्यं यथा घटं प्रत्यरण्यस्यस्यापि दण्डादे-
र्जनकत्वम् । द्वितीयं यथा इच्छां प्रति ज्ञानस्य जनकत्वम् । स्वरूपयोग्यत्वं
च जनकतावच्छेदकधर्मवत्त्वम् । स च धर्मो घटं प्रति दण्डः कारण-
मित्यत्र दण्डत्वादिः । फलोपहितत्वं चाव्यवहित पूर्ववृत्तित्वसंवन्धेन फल-
विशिष्टत्वम् । [ख] उत्पत्तिप्रयोजकत्वम् । यथा जन्यानां जनकः कालः
( भा० प० श्लो० ४६ ) इत्यादौ ।
 

 
जननम् - १ उत्पत्तिवदस्यार्थोनुसंधेयः । २ जन्म । ३ आविर्भावः ।
यथा यदैव पूर्वे जनने शरीरम् ( कुमार० स० १ श्लो० ५३ ) इत्यादौ ।
४ दीक्षितस्य यज्ञादिषु दीक्षादिसंस्कार विशेष इति याज्ञिकाः । अत्र
श्रुतिः पुनर्वा एतमृत्विजो गर्भे कुर्वन्ति ये दीक्षयन्ति इत्यादिः (वाच० ) ।
स्मृतिरपि मातुरप्रेधिजननं द्वितीयं मौजिबन्धने । तृतीयं यज्ञदीक्षायां
द्विजस्य श्रुतिचोदनात् ॥ ( मनुः अ० २ श्लो० १६९ ) इति ।
५ मन्त्राणां मातृकावर्णादुद्धारो जननं स्मृतम् ( सर्व० सं० पृ०
३६९ पात ० ) ।
 
:
 
जन्म - - [क] शरीरेन्द्रियबुद्धीनां निकाय विशिष्ट प्रादुर्भाव: ( वात्स्या
१ । १ । २ ) । अत्रोच्यते अण्डजोद्भिज्जसं स्वेदजरायुजमथापि वा । चतुर्धा
जन्म इत्येतद्भुतप्रामस्य लक्षणम् ॥ ( भा० आनु० अ० ४२) इति ।
[ ख ] देहेन्द्रिय मनोबुद्धिवेदनाभिः संबन्ध: ( वात्स्या० ११ १११९)
(बै० उ० ६।२।१५ ) । [ग] विशिष्टशरीरसंबन्ध: ( गौ० १०
१११ १२ ) । [घ ] विजातीयशरीराद्यप्राणसंयोगः ( गौ० दृ०
१।२।१९) । शरीरप्राणसंयोग आद्यत्वं च स्वसजातीयशरीरवृत्तिप्राण-
संयोगध्वंसानधिकरणत्वम् ( राम० १ पृ० २०) [ ] आद्य-
शरीरप्राणसंयोगः : ( दि० १ पृ० २०) । यथा अस्मदादीनां जन्म ।
शरीर आद्यत्वं च स्वसजातीयशरीरध्वंसानधिकरणत्वम् । शरीरप्राण-