This page has not been fully proofread.

न्यायकोशः ।
 
( गौ० १।२।११ ) । प्रकारान्तरेण छलं त्रिविधम् अमिधानतात्पर्यो-
पचारवृत्तिव्यत्यय मेदात् इति ( सर्व० सं० पृ० २४० अक्ष० ) ।
[ ङ ] अनिष्टमर्थमारोप्य तन्निषेधश्छलं मतम् इति ( ता० २०
को० ९४ ) ।
 
२८५
 
छिद्रम् – गर्तवदस्यार्थोनुसंधेयः ( न्या० वा० १ । १।१४ पृ० ८१ ) ।
छेदनम् – आरम्भकसंयोगविरोधिविभागावच्छिन्नक्रिया । यथा तृणं छिन-
त्तीत्यादौ छिदेरर्थः । अत्र छिद्यर्थनिविष्टे च संयोगे विभागे वा स्वावयव-
वृत्तित्वसंबन्धेन तृणादेरन्वयः ( श० प्र० श्लो० ७२ पृ० ९४ ) ।
यथा वा करपाददतो भने छेदने कर्णनासयोः ( याज्ञ० अ० २
 
श्लो० २२४ ) अभिज्ञाश्छेदपातानां क्रियन्ते नन्दनद्रुमाः ( कुमार •
स० २ श्लो० ४१ ) इत्यादौ ( वाच० )।
 
ज.
 
-
 
जगत् – १ स्थावरजङ्गमात्मकं सर्वपदार्थजातम् । यथा यच किंचिज्जगत्सर्व
दृश्यते श्रूयतेपि वा । अन्तर्बहिश्च तत्सर्व व्याप्य नारायणः स्थितः
 
( नारा० उप० ) यदा स देवो जागर्ति तदेदं चेष्टते जगत् ( मनुः
अ० १ श्लो० ५२ ) जगद्योनिरयोनिस्त्वं जगदन्तो निरन्तकः ।
जगदादिरनादिस्त्वं जगदीशो निरीश्वरः ॥ ( कुमार ० स० २
लो० ९) इत्यादौ चराचरं सत्यभूतं सर्वे विश्वं जगद्भवति । जगतो
लक्षणं च प्रमेयत्वम् अभिषेयत्वं वा । तच्चेश्वरीयप्रमाविषयत्वम् ईश्वरीया-
भिधाविषयत्वं च प्रायम् । तेन जीवानामसर्वज्ञत्वेन ऐहिकामुष्मिक-
निखिलपदार्थानामज्ञानेपि नाव्याप्तिः । २ वायुरिति पौराणिकाः ।
३ लोक इति काव्यज्ञा वदन्ति ( वाच० ) ।
 
जडत्वम् – १ ज्ञानादिमान् यो यः तत्तद्व्यक्तित्वावच्छिन्न प्रतियोगिताकभेद-
कूटवस्त्वम् । तेन सुषुप्तिकाले ज्ञानादिसामान्याभावसस्वेपि अव्याप्यवृत्ति-
धर्मावच्छिन्न प्रतियोगिताकमेदस्याव्याप्यवृत्तित्वेन ज्ञानाद्यवच्छिन्न प्रतियोगि-
ताकमेदस्य चात्मनि सस्वेपि न दोषः (ल० ब० ) । यथा वृक्षपाषाणा-