This page has not been fully proofread.

२८४
 
न्यायकोशः ।
 
धर्मिण्य विद्यमानस्तद्भावः शौकृपादिः इति । अत्र शौक्कयादिभावचिव-
प्रत्ययार्थः । तथा च प्रकृत्यर्थस्य शुक्कस्य पूर्वकालावच्छिन्न स्वनिष्ठा-
भावप्रतियोगित्वसहिताषेयत्वसंबन्धेन प्रत्ययार्थे शौक्कये अन्वयः ( ग०
व्यु० का० ४ पृ० १०२ - १०३ ) । अत्र स्वपदम् लक्षणया
शुक्लवर्णविशिष्टशुक्लरूपप्रकृत्यर्थपरम् । [ ख ] शाब्दिकास्तु यत्र प्रकृति-
रेव विकार सादृश्यमापद्यमाना विवक्ष्यते तत्र च्विप्रत्ययः । यथा संघी-
भवन्ति ब्राह्मणाः त्वद्भवति देवदत्त इत्यादावपि इत्याहुः ( ल० म० ) ।
 
छ.
 
छलम् - [क] वचनविघातोर्थ विकल्पोपपस्या छलम् ( गौ० ११२ । १०) ।
छलं निरनुयोज्यानुयोगरूपे निग्रहस्थाने एवान्तर्भवति नातिरिक्तः पदार्थः
इति ज्ञेयम् ( गौ० वृ० १ । १ । १ ) । [ ख ] वक्तृतात्पर्याविषयार्थ-
कल्पनेन दूषणाभिधानम् । अत्र तात्पर्याविषयत्वं च विशेष्ये विशेषणे
संसर्गे वा विज्ञेयम् । यथाक्रममुदाहरणानि यथा नेपालादागतोयं
नवकम्बलवत्त्वादित्यत्र नवसंख्या परत्वकल्पनया असिद्ध्यभिधानम् । प्रमेयं
धर्मत्वादित्यत्र पुण्यत्वार्थकल्पनया भागासिद्ध्यभिधानम् । वह्निमान्

घूमादित्यत्र घूमावयवे व्यभिचाराभिधानम् इति ( गौ० दृ०
१।२।१० ) । [ग] अमिप्रायान्तरेण प्रयुक्तस्य शब्दस्यार्थान्तरं
प्रकल्य दूषणाभिधानम् ( त० मा० पृ० ५० ) ( त० दी०
पृ० ४३ ) । यथा नवकम्बलोयं देवदत्तः इति वाक्ये नूतनाभिप्रायेण
प्रयुक्तस्य शब्दस्य नवत्वसंख्या विशिष्टमर्थान्तरमाशय कश्चिदूषयति ।
नास्य नव कम्बलाः सन्ति दरिद्रत्वात् । न यस्य द्वित्वमपि संभाव्यते
कुतो नव इति ( त० भा० पृ० ५० ) ( नील० पृ० ४३ ) । यथा
बा नवपुत्रोयं देवदत्त इत्यत्र नूतनाभिप्रायेण प्रयुक्तनवशब्दस्य नवत्व-
संख्याभिप्रायकत्वं प्रकल्प्य दूषणाभिधानं क्रियते एक एव पुत्रः कष्टेना-
नेन लब्धः कुतोस्य नवसंख्याकाः पुत्राः इति ( प्र० प्र० पृ० २४ ) ।
[घ ] शब्दवृत्तिव्यत्ययेन प्रतिषेधहेतुः ( सर्व० सं० पृ० २४०
अक्ष० ) । छलं त्रिविधम् वाक्छलम् सामान्यच्छलम् उपचारच्छलं चेति