This page has not been fully proofread.

न्यायकोशः ।
 
२८३
 
चोदना – १ [ क ] विधिबाक्यम् । चोदना चोपदेशच विधिश्चैकार्थ-
बाचिन: इति ( भट्टका० ) । यथा ओदनकाम: पचेत स्वर्गकामो
यजेत इत्यादि वाक्यम् । [ख] प्राभाकरास्तु प्रवर्तकं वेदवाक्यं चोदना ।
यथा चोदनालक्षणोर्थो धर्मः ( जै० सू० १११ । २ ) इत्यादौ ज्योति-
ष्टोमेन स्वर्गकामो यजेत इत्यादि वाक्यम् इत्याहुः ( लौ० मा० पृ० ३ ) ।
[ग] प्रवर्तकः शब्दचोदना ( जै० सू० दृ० अ० १ पा० १ सू० २ ) ।
[घ ] कर्मोत्पत्तिवाक्यम् (जै० सू० दृ० अ० २ पा० २ सू० १६) ।
भट्टास्तु [ङ ] प्रेरणा फलभावना । यथा स्वर्गकामो यजेत इत्यादौ लिखा-
द्यर्थाभिधारूपा चोदना इत्याहुः (वाच० ) । [च ] प्रवर्तना । [छ ]
प्रवृत्तिहेतुः । यथा ज्ञानं ज्ञेयं परिज्ञाता त्रिविधा कर्मचोदना (गीता )
इत्यादाविष्टसाघनत्वज्ञानम् इष्टसाधनं कर्म एतज्ज्ञानाश्रयश्चेति त्रिविधा
चोदना भवति ( श्रीधरः ) । [ज ] अज्ञातार्थज्ञापकं शब्दमात्रम् ( रत्न-
प्रभा० पृ० १२ ) । यथा चोदनाप्रवृत्तिमेदाञ्च ( शारी० मा० १ । १९ १
पृ० २ ) इत्यादौ । २ चोदनाविषयो यागादिप्रयत्नः । यथा एक बा
संयोगरूपचोदनाख्याविशेषात् ( जै० सू० २।४।९ ) ( रत्नप्रभा० ) ।
इत्यत्र पुरुषप्रयत्नश्चोते ( शाबरमा० २४१९ ) इति ( वाच● ) ।
३ चोदना नाम अपूर्वम् (जै० सू० वृ० अ० २ पा० १ सू०५ ) ।
चौर्यम् – परमात्रस्यत्वव द्रव्यहरणम् । यथा सा च द्रव्यवशा कुतस्तष धनम्
द्यूतेन चौर्येण वा चौर्यद्यूतपरिग्रहोपि भवतो नष्टस्य कान्या गतिः
( उद्भटः ) इत्यादौ (बाच० ) । अत्रोच्यते मनुना स्यास्साहसं त्वन्वय-
बत् प्रसभं कर्म यत् कृतम् । निरन्वयं भवेत्स्तेयं हृत्वापहूयते च यत् ॥
( मनु० अ० ८ श्लो० ३३२ ) इति । अत्र अपव्ययते इति पाठान्त-
रम् । नारदेनापि उपायैर्विविधैरेषां छलयित्वापकर्षणम् । सुप्तमत्तप्रमत्तेम्यः
स्तेयमाहुर्मनीषिणः ॥ इति ( वीरमित्रो० २ १० ४८९ ) ।
 
-
 

 
च्विः – ( प्रत्ययः ) [ क ] अभूततद्भावव्यर्थः । यथा घटं शुकीकरोती-
त्यादौ शौकयादिः । तदर्थश्च अभूतस्य पूर्वकालावच्छेदेन शुकस्वादि-
भावरहितस्य तद्भावः शौक्पादिः । अथवा अभूतः पूर्वकालावच्छेदेन