This page has not been fully proofread.

न्यायकोशः ।
 
शब्दानुमितिः । ततोर्थप्रत्ययः इति बोध्यम् ( म०प्र० ४ पृ० ६६ ) ।
क्रियाविशेषे चोच्यते । बाह्यैर्विभावयेलिङ्गैर्भावैरतर्गतं नृणाम् । स्वरवर्णे-
ङ्गिताकारैश्चक्षुषा चेष्टितेन च ॥ आकारैरिङ्गितैर्गत्या चेष्टया भाषितेन च ।
नेत्रवनविकारैश्च गृह्यतेन्तर्गतं मनः ॥ ( मनु० ) इति । वायोस्तु
स्पर्शनं चेष्टा व्यूहनं रौक्ष्यमेव च इति याज्ञवल्क्येन तस्या वायुकार्यत्व-
मुक्तम् ( वाच० ) । चेष्टा च शब्दस्मारकतया शब्दानुमापकतया वा
प्रमायामुपयोगिनी । तथाहि । इयं चेष्टा ताबद्द्विविधा । कृतसमया अकृत-
समया च । तत्र कृतसमया लिप्यादिवदभिप्रेतं शब्दमेव स्मारयति न
किंचित्प्रमापयतीति लिपिरिव सापि न प्रमाणम् । अयमर्थः । शङ्खध्वनौ
स्वया आगन्तव्यमिति शङ्खध्वनिं श्रुत्वा आगच्छति । यदा मया तर्जन्यू-
क्रियते तदा त्वयासौ ताडनीय इति तथाविधकरणे ताडयति । तथा च
अनया चेष्टया केवलं पदार्थाः स्मार्यन्ते न तु तेषां संसर्गोपि बोध्यते
इति प्रमितिविरहान्न प्रमाणत्वमस्याः इति । अन्ये तु मानसं बोधमाडुः
( त० व० पृ० १०१ ) । अकृतसमया तु चेष्टा प्रयोजकाभिप्रायं
स्मारयन्ती सती प्रयोज्यं प्रवर्तयति ( त० व० १० १००-१०१)।
एवं च चेष्टा न प्रमाणान्तरम् इति नैयायिकाः । तान्त्रिकास्तु चेष्टापि
प्रमाणान्तरम् इत्याहुः ( म० प्र० ४ पृ० ६६ ) ( सि० च० ) ।
 
२८२
 
चैतन्यम् – [ १
 
] [ क ]
 
ज्ञानवत्त्वम् ( दि० १ । २ ) । यथा शरीरस्य न
-[१] [क]
चैतन्यं मृतेषु व्यभिचारतः ( भा०प० श्लो० ४९ ) इत्यादौ । [ ख ]
ज्ञानेच्छायत्नवत्त्वम् ( उ० ब० ) । यथा आत्मनश्चैतन्यम् । अत्र श्रुतिः
चैतन्यमात्मनो विद्यात् इति ( वाच० ) । [२] चितौ बुद्ध्यादेः
प्रतिबिम्ब: ( चिच्छाया ) चैतन्यम् इति सांख्याः । [३] बुख्यादा-
त्रात्माभ्यासात् ( चिच्छाया चित्प्रतिबिम्ब: ) चैतन्यमिति मायावादिनो
वदन्ति । अत्रोच्यते चैतन्यं परमाणूनां प्रधानस्यापि नेष्यते । ज्ञानक्रिये
जगत्कय दृश्येते चेतनाश्रये ॥ इति ( वेदान्तका ० ) ( वाच० ) ।
चैतन्यं दृक्क्रियारूपं तदस्त्यात्मनि सर्वदा । सर्वतश्च यतो मुक्तौ श्रूयते
सर्वतोमुखम् ॥ ( सर्व० सं० १० १८२ शैव० ) ।