2023-02-20 00:54:55 by ambuda-bot
This page has not been fully proofread.
न्यायकोशः ।
साभ्यताज्ञानमेव कारणम् इत्याहुः ( न्या० म० ४ पृ० २७ ) । अय-
माशयः । इच्छायाः समानप्रकारकधीसाभ्यत्वम् इति नियमास्कृतिसाभ्यत्व-
प्रकारकेच्छां प्रति कृतिसाध्यत्वप्रकारकज्ञानत्वेनैव हेतुत्वम् इति ( त०
प्र० ४ पृ० १०६) । [ ख ] कृतिप्रकारकयत्किंचिद्विशेष्यकेच्छा ।
यथा पाकं चिकीर्षति इत्यादौ कृतिप्रकारकपाकविशेष्यकेच्छा । सा
च पार्क कृत्या साधयामि इतीच्छा । अत्रेदं बोध्यम् । पाकादेश्च कृति-
कर्मत्वमेव द्वितीयया प्रत्याय्यते । न तु इच्छाया विषयत्वरूपं कर्मत्वम्
इति (ग० व्यु० का० २ ख० २ पृ० ५९ ) । [ग] कृतिविशेष्य-
केच्छा । सा च यथा पाककृतिर्भवतु इतीच्छेव ( ग० व्यु० का० २
ख० २ पृ० ५९ ) । [घ ] गुरवस्तु कृतिसाध्यत्वप्रकारकेच्छा इत्याहुः
(मु० गु० १० २२३ ) । अत्रोच्यते । कार्यत्वज्ञानं प्रवर्तकम् । तथाहि
ज्ञानस्य कृतौ जनयितव्यायां चिकीर्षातिरिक्तं न कर्तव्यमस्ति । तरसत्रे
कृतिविलम्बहेत्वन्तराभावात् । चिकीर्षा च स्वकृतिसाध्यताज्ञानसाध्या ।
इच्छायाः स्वप्रकारकधीसाभ्यत्वनियमात् । अत एव स्वकृतिसाध्ये पाके
प्रवर्तते । न त्विष्टसाधनताज्ञानसाध्या । स्वकृत्यसाध्ये चिकीर्षापत्तेः
(चि० 8 ) (वाच० ) ।
चित् - १ [क ] चैतन्यवदस्यार्थोनुसंधेयः । [ख] चिदिति प्रोक्तो
जीवः ( सर्व० सं० पृ० ९२ रामानु० ) । २ असाकल्यम् । यथा
कञ्चित् कथंचित् जातुचित् इत्यादौ । ३ चयनकर्ता । यथा अग्निचित्
इत्यादौ । 8 अग्निः इति च याशिका आहुः । ५ अव्यक्तानुकरणम् ।
यथा नहि करिणि दृष्टे चित्कारेण तमनुमिमतेनुमातारः ( चि० पक्षता ●
वाचस्पतिमिश्रः ) इत्यादौ इति काव्यज्ञा वदन्ति ( वाच० ) ।
चितिः -काङ्गलेन कष्टे ध्याममात्रे भूप्रदेशे नानाविधामिरिष्टकामिः पक्ष्या-
कारेण स्थानं निष्पाद्यते सेयं चितिः ( जै० न्या० अ० ४ पा० 8
अधि० ७ ) ।
चित्तम् – प्रमाणमात्रव्य ज्या विवेकप्रवृत्तिश्चित्तम् ( सर्व० सं० १० १८८
मकु० ) ।