2023-02-20 00:54:56 by ambuda-bot
This page has not been fully proofread.
न्यायकोशः ।
२७९
न हि लोकसिद्धसामग्री प्रातिभासिकरजतोत्पादिका । किंतु विलक्षणैव ।
तथा हि काचादिदोषदूषितलोचनस्य पुरोवर्तिद्रव्यसंयोगादिदमाकारा
चाकचक्याकारा च काचिदन्तःकरणवृत्तिरुदेति इति चाकचक्यसंदर्शन-
समुद्बुद्धरजतत्वसंस्कारसधीचीना इति च ( वेदान्तप० ) ( वाच ० ) ।
चाकचिक्यम् –चाकचक्यशब्दवदस्यार्थोनुसंधेयः ।
चाक्षुषम् - १ चक्षुर्जन्यं प्रत्यक्षम् । यथा द्रव्यचाक्षुषं प्रति चक्षुःसंयोगः
कारणम् इत्यादौ । २ चक्षुर्माह्यम् । यथा रूपादि ।
चारित्रम् – सर्वथावद्ययोगानां त्यागश्चारित्रमुच्यते ( सर्व० सं० पृ० ६५
-
आई० ) ।
—
चार्वाकः – ( नास्तिकः ) बृहस्पतिशिष्यो लोकायताख्यः । अत्र व्युत्पत्तिः ।
चारुः लोकसंमतः वाकः वाक्यम् यस्य सः इति द्रष्टव्या ( वाच० ) ।
चार्वाकच प्रत्यक्षैकप्रमाणवादी परमेश्वरस्वर्गनरकपुण्यपापादिकं नाङ्गी-
करोति । तन्मतं तु सर्वदर्शनसंग्रहादौ सायणादिना किंचित् किंचित्
प्रदर्शितम् । तस्मादेव तत् ज्ञातव्यम् ।
चिकीर्षा–[ क ] कृतिसाभ्यत्वप्रकारिका कृतिसाभ्यक्रियाविषयिणीच्छा ।
यथा पार्क कृत्या साधयामि इत्याकारिकेच्छा ( चि० ४ ) (मु० गु०
पृ० २२१ ) । यथा वा पाकः कृत्या साम्यताम् इत्याकारिकेच्छा
( वाच० ) । अत्रेदमवधेयम् । कृतिसाभ्यताज्ञानम् इष्टसाघनताज्ञानं च
चिकीर्षो प्रति कारणम् । कृतिरत्र प्रवृत्तिरूपा माझा । नातो जीवनयोनि-
यत्नसाभ्यस्वाभाविक प्राणवायुसंचारे चिकीर्षा ( म०प्र० ४ पृ० ६१ ) ।
बलवद्द्विष्टसाधनताज्ञानं तु चिकीर्षायां प्रतिबन्धकम् इति । अतो मधु-
विषसंपृक्तान्न भोजने न चिकीर्षा (मु० गु० पृ० २२१ ) । अन्ये तु
बलवद्वेषः प्रतिबन्धकः इत्याहुः । केचित्तु बलवदनिष्टासाधनत्वज्ञानमपि
चिकीर्षो प्रति कारणम् इत्याहु: ( भा० प० लो० १४७ - १४९ )
(मु० गु० ) । गुरवस्तु कृतिसाध्यताज्ञानमात्रं चिकीर्षो प्रति कारणम्
इत्याहुः (मु० गु० पृ० २२२ ) । नव्याथापि चिकीर्षा प्रति कृति-