This page has not been fully proofread.

२७८
 
न्यायकोशः ।
 
सू० १।४।३७ ) इत्यनेन कर्मणः संप्रदानसंज्ञा । चतुर्थ्यर्थो विषयित्वम् ।
तस्य कोपेन्वयः ( ग० व्यु० का० ४ पृ० ९६ ) ।
 
चतुर्हतः - पृथिवी होता इत्यादिको मन्त्रचतुर्होता । तस्य मन्त्रस्यामिमानि-
त्वेनात्मभूतः कश्चित्पुरुषः प्रजापतिना चतुर्वारमामन्त्रितः प्रत्युत्तरमुषाचेति
स पुरुषश्चतुर्हतः । तदीयनाम्ना मन्त्रोपि चतुर्हतः ( जै० न्या० अ० ३
पा० ७ अधि० ४ )।
 
-
 
चमसः - पात्रविशेषस्थिताः सोमरसाश्चमसाः ( जै० न्या० अ० ३ पा०
२ अधि० १२ ) ।
 
चयनम् [क] छिदाहेतुर्विघट्टनम् । यथा वृक्षं फलान्यषचिनोतीत्यत्र
चिनोतेरर्थः । अत्र फलकर्मकच्छिदानुकूलं यत् वृक्षस्य विधट्टनम्
( चालनम् ) तद्वान् इत्येवं बोध: ( श० प्र० श्लो० ७३ पृ० ९९ ) ।
[ख] शाब्दिकास्तु विभागपूर्वकमादानम् । यथा वृक्षमवचिनोति
फलानीत्यादौ चिनोतेरर्थः इत्याहुः । अत्र वृक्षात्फलमादत्ते इति बोधः
( ल० म० सुब० पृ० ९२ ) ।
 
makan
 
चरमत्वम् - १ स्वसजातीयपदार्थप्रागभावानधिकरणस्वम् । यथा तन्तुः
पटस्य चरमावयवः इत्यादाववयवस्य चरमत्वम् । यथा वा अब्रवीत्
क्रियतामेषा सूतानां चरमा क्रिया ( भा० वि० अ० २४ ) उत्तिष्ठेत्
प्रथमं चैव चरमं चैव संविशेत् ( मनु० ) इत्यादौ चरमत्वम् ।
क्वचित्खेतरभावकारणानपेक्षकार्यकत्वम् । यथा अनुमिति प्रति परामर्श-
श्वरमकारणम् इत्यादौ कारणस्य चरमत्वम् इति गुरुचरणाः प्राहुः ।
चर्या – ( विधिः ) प्रधानभूतः साक्षाद्धर्महेतुश्चर्या ( सर्व० सं० १० १६९
नकुली० ) ।
 
चाकचक्यम् –श्रमोत्पादको दोषविशेषः । यथा शुक्तौ चाकचक्यम्
( नील० प्रामा० प० ३७ ) । अत्र च शुक्तौ चाकचक्यदोषवशात्
इदं रजतम् इति ज्ञानमुत्पद्यते इति ध्येयम् । उज्ज्वलत्वमिति कश्चिदाह ।
तदाकारोन्तःकरणवृत्तिविशेष इति मायावादिन आहुः । अत्रोच्यते ।