This page has not been fully proofread.

न्यायकोशः ।
 
२७७
 
स्तेजोषयवैरारब्धं च चक्षुः ( प्रशस्त ० १ तेजोनि पृ० ६ ) ।
२ तेजः । यथा सूर्यश्चक्षुषे ( ताण्डयत्रा० ) इत्यादौ ( वाच० ) ।
चण्डिका - ( कल्याणीशन्दे दृश्यम् ) ।
 
-
 
चतुरणुकम् - ( जम्यद्रव्यस्यावयवः ) चतुर्भिक्यणुकैर्यदुत्पद्यते तत् ( त०
दी० १५० ९) । एवं पञ्चाणुकासम् (त० कौ० १ पृ० ३ ) । नव्या
नास्तिकास्तु संयुक्ताणुचतुर्विंशतिकं चतुरणुकम् इत्याहुः (प० मा० ) ।
चतुर्थी – ( विभक्तिः ) तत्तद्धात्वर्थे संप्रदानत्वादिबोधिका विभक्तिः ( श०
प्र० लो० ६५ पृ० ७५ ) । यथा विप्राय गां ददातीत्यादौ विप्रायेति
चतुर्थी । चतुर्थ्यर्थश्च [१] संप्रदानम् । तच्च क्रियाकर्मीभूतवस्तुनिष्ठ-
स्वत्वभागित्वेनोद्देश्यम् । यथा विप्राय गां ददाति राज्ञे दण्डं ददातीत्यादौ
विप्रो राजा च संप्रदानम् । अत्र दानेन गोदण्डादौ यजमानस्वत्व-
निवृत्तौ विप्रराजादेः स्वत्वोत्पादात् गोदण्ड निष्ठस्वत्वभागित्वेन विप्र-
राजोद्देश्यकगोदण्डकर्मकदानकर्ता इति बोधः ( म० प्र० पृ० ६) ।
[२] उद्देश्यत्वम् । यथा एषोर्ष्य: शिवाय नमः इत्यादौ चतुर्थ्यर्थः
( ग० व्यु० का० ४ पृ० ९९ ) । [३] तादर्थ्यम् । यथा यूपाय दारु
इत्यादौ चतुर्य्यर्थः । अत्र ताद चतुर्थी वाच्या इति वार्तिकेन चतुर्थी ।
[ ४ ] संबन्धः । यथा नारदाय रोचते कलहः वैश्याय शतं धारय-
तीत्यादौ । नारदायेत्यत्र रुभ्यर्थानां प्रीयमाणः ( पा० १ । ४ । ३३) इति
सूत्रेण संबन्धमात्रबोधिका चतुर्थी उपपदविभक्तिरेव ( म०प्र०
पृ० ६ ) । वैश्यायेत्यत्र धारेरुत्तमर्णः ( पा० १।४।३५ ) इति सूत्रेण
संबन्धमात्रे चतुर्थी । विष्णवे नमः इत्यादौ च चतुर्ध्यर्थः संबन्धः ।
अत्र नमः स्वस्तिस्वाहास्वधालंबषड्योगाच ( पा० २।३।१६) इति सूत्रेण
संबन्धार्थे चतुर्थी उपपदविभक्तिरेव ( म०प्र० पृ० ६ ) । [५]
विषयित्वम् । यथा पुष्पेभ्यः स्पृहयति पुत्राय क्रुद्ध्यतीत्यादौ चतुर्थ्यर्थः ।
पुष्पेभ्य इत्यत्र स्पृहाविषयपुष्पस्य स्पृहेरीप्सितः (पा० सू० १।४ । ३६)
इत्यनेन संप्रदानत्वाञ्चतुर्थी । तदर्थो विषयित्वम् । तस्येच्छारूपक्रियाया-
मन्वयः । पुत्रायेल्यत्र क्रुधदुहेर्ष्यासूयार्थानां यं प्रति कोपः ( पा०