This page has not been fully proofread.

२७६
 
न्यायकोशः ।
 
घटोयं यद्येतद्दटजन्यजन्यजन्यः स्यात् तदा एतद्धटजन्यजन्यमिनः स्यात्
इति । स्थितौ यथा घटोयं यद्येतद्धटवृत्तिवृत्तिवृत्तिः स्यात् तदा तथा-
त्वेनोपलभ्येत इति ( वाच ० ) । २ चक्राकार श्छन्दोविशेष इति
छन्दोज्ञाः । ३ ददुरोग इति मिषज आहुः ( वाच० ) ।
 
-
 
चक्रवृद्धिः – वृद्धेर्वृद्धिः । उत्तमर्णाय मूलादधिकं यद्रव्यमधमर्णेन दीयते
तद्वृद्धिशब्देनोच्यते ।
 
चक्षुः - १ ( इन्द्रियम् ) [क] रूपोपलब्धिसाधनमिन्द्रियम् ( त० भा०
प्रमेय० पृ० २६ ) । अत्रेदमवधेयम् । चक्षुषोधिष्ठातृदेवः सूर्यः । तत्र
दिग्वातार्कप्रचेतोश्वि इत्यादि प्रमाणम् ( शा० ति० ) । चक्षुःसद्भावे
प्रमाणमनुमानम् । तच्चानुमानम् रूपोपलब्धि: सकरणिका क्रियात्वा-
च्छिदिक्रियावत् इति । अनेनानुमानेन पक्षधर्मताबलाञ्चक्षुः सिद्धिः ।
इयमेव रीतिर्घाणादावपि बोध्या ( म० प्र० १ पृ० १४ ) । तच्च
चक्षुः तैजसम् ( न्या० म० १ पृ० १४ ) । चक्षुषस्तैजसत्वेनुमानं
प्रमाणम् । तच्चानुमानम् चक्षुस्तैजसम् स्पर्शाद्यव्यञ्जकत्वे सति परकीय-
रूपव्यञ्जकत्वात्प्रदीपवत् । प्रभाषत् इति वा (मु० १ पृ० ७९ )
(त० भा० पृ० २७) । चक्षुष्यनुद्भूतशुको गुणोस्ति । संख्या परिमाणम्
पृथक्त्वम् संयोगः विभागः परत्वम् अपरत्वम् द्रवत्वम् स्नेहः किया
जातिः समवायश्च एतानि योग्यव्यक्तिवृत्तीनि चक्षुर्माह्याणि । तथा उद्भूत-
रूपम् उद्भूतरूपवद्रव्यं च चक्षुर्ग्राह्यम् (भा०प० लो० ५५-५६ ) ।
तच्चाप्राप्यप्रकाशकारि भवति इति विज्ञेयम् ( दि० १ तेजोनि० पृ० ८० ) ॥
तैजसं गोलकमेव चक्षुः इति बौद्धा आहुः । उच्छृङ्खलमते तु गोलकमेव
चक्षुः न तैजसम् । [ख] रूपग्राहकं महदिन्द्रियम् ( न्या० म० १
पृ० १४ ) ( त० मा० पृ० २६ ) । घ्राणादिवारणाय रूपग्राहकम्
इति विशेषणम् । मनोवारणाय महत् इति । आलोकादिवारणाय इन्द्रियम्
इति ( म० प्र० १ पृ० १४ ) । [ग] घंटे रक्तो वर्णः इति रूप-
प्रत्यक्षासाधारणं कारणम् । तच्च कृष्णताराप्रवर्ति ( प्र० प्र० पृ० ११)
( त० सं० ) [ घ ] सर्वप्राणिनां रूपव्ययकम् अन्यावयवानमिभूतै-