This page has not been fully proofread.

न्यायकोशः ।
 
घट - (धातुः ) १ चेष्टा । यथा अङ्गदेन समं योद्धुमघटिष्ट नरान्तकः
( भट्टिः ) । २ हिंसा । ३ द्युतिः । यथा कमलवनोद्घाटनम् ।
४ शब्दकरणम् । यथा घण्टयति घण्टा निघण्टुः इत्यादौ ( वाच० ) ।
 
-
 
घटः – १ कम्बुप्रीवादिमान् पृथुबुनोदराकृतियुक्तः पदार्थविशेषः । यथा
घटं प्रति दण्डः कारणम् इत्यादौ घटः । २ कुम्भकाख्यः प्राणायाम-
विशेष इति तान्त्रिकाः । ३ द्रोणविंशतिपरिमाणम् इति शाब्दिका
आहुः । ४ कुम्भराशिरिति मौहूर्तिकाः । ५ इस्तिकुम्मस्थलमिति
काव्यज्ञा आहुः ( वाच० ) ।
 
घटकत्वम् – १ तद्विषयताव्यापकविषयतावत्त्वम् । स्वभिन्नत्वस्वव्यापकत्व-
एतदुभयसंबन्धेन विषयताविशिष्टविषयतावत्त्वमित्यर्थः । यथा वहयभाव-
ज्ञानीयविषयताव्यापकत्वस्य वह्निविषयतायां सत्त्वेन वहेर्वह्नयभावघटक-
त्वम् । २ अवच्छेदकत्वम् । यथा साध्याभाषाधिकरणत्वं च साभ्यवत्ता-
ग्रहविरोधिताघटकसंबन्धेन विवक्षणीयम् साध्याभाव प्रतियोगित्वं च
साध्यताघटकसंबन्धेन विवक्षणीयम् इत्यादौ घटकत्वम् । ३ योजकत्वम्
इति तानिका आहुः । तद्भेदाचोक्ताः । धावको भावकश्चैव योजक-
आंशिकस्तथा । दूषकः स्तावकश्चैव षडेते घटकाः स्मृताः ॥ इति ।
 
-
 
घटितत्वम् – तद्विषयताव्याप्यविषयतावत्त्वम् । यथा वह्वयभावविषयताय
वह्निविषयताव्याप्यत्वेन वहयभावस्य वह्निघटितत्वम् । यथा वा विशिष्टा-
न्तराघटितत्वम् विशिष्ठद्वयाघटितत्वम् प्रतियोगिवैयधिकरण्यघटितत्वम्
इत्यादौ घटितत्वम् ।
 
घोषः --गोमहिष्यादियुक्तो देश: ( कैय० ७ ।३।१४) ।
 
-
 
घ्रा--(धातुः ) [ ] गन्धविषयकलौकिक प्रत्यक्षम् । यथा पुष्पं जिन-
तीत्यादी प्राधात्वर्थः । अत्र द्वितीयार्थ आधेयत्वम् । व्युत्पत्तिवैचित्र्येण
तस्य प्राधास्वर्यैकदेशे गन्धेन्वयः । एवं च पुष्पवृत्तिगन्धलौकिक प्रत्यक्षा-
३५ न्या● की०