This page has not been fully proofread.

सर्ग एष ते ( रघु० ३१५१ ) तयोर्जगृहतुः पादान् राजा रात्री
मागधी ( रघु० ११५७ ) दश प्रहान् ( यज्ञपात्राणि ) गृह्णाति (श्रुतिः)
इंसं तनौ संनिहितं चरन्तं मुनेर्मनोवृत्तिरिव स्विकायाम् । ग्रहीतुकामा
दरिणा शयेन यत्नादसौ निश्चलतां जगाहे ॥ ( नैष० ३ । ४ ) इत्यादौ ।
३ स्वीकारः । स च द्विविधः । स्वत्वापादनव्यापारः सेवनादिना
आयत्तीकरणं च । तत्राद्यो यथा तत्र किंचिन्न गृह्णीयात् प्राणैः कण्ठगतै-
रपि ( प्रा० त० गङ्गामाहा० ) इत्यादौ । द्वितीयो यथा शरद्रौद्रं न
गृह्णीयात् गृह्णीयान्मार्गपौषयोः ( नीति ० ) ।
 
ग्रहः – सूर्यादयो नव ग्रहा इति ज्योतिर्विदो वदन्ति । बालारिष्टकाराः स्कन्द-
ग्रहादय इति पौराणिका भिषजचातुः ( वाच० ) । ते च सुश्रुत उक्ता
यथा स्कन्दग्रह १ स्तु प्रथमः स्कन्दापस्मार २ एव च । शकुनी ३ रेवती
४ चैव पूतना ५ चान्धपूतना ६ ॥ पूतना शीतनामा ७ च तथैव
मुखमण्डिका ८ । नवमो नैगमेयश्च ९ यः पितृग्रहसंज्ञितः ॥ इति ।
ग्रामः — ब्राह्मणकर्षकपुरुषप्रधानो देशो ग्रामः ( कैयट: ७ । ३ । १४ ) ।
अत्र महाभाष्यकाराः । प्रामशब्दोयं बहुर्थः । अस्त्येव शालासमुदाये
वर्तते । तद्यथा प्रामो दग्ध इति । अस्ति वाटपरिक्षेपे वर्तते । तद्यथा
ग्रामं प्रविष्ट इति । अस्ति मनुष्येषु वर्तते । तद्यथा ग्रामो गतो ग्राम
आगत इति । अस्ति सारण्यके ससीमके सस्थण्डिलके वर्तते ।
तद्यथा ग्रामो लब्ध इति ( महाभाष्यम् १।१।७) । वाटपारिक्षेपार्थस्तु
वाटपरिक्षेपशब्दे द्रष्टव्यः ।
 
-
 
ग्राह्यः – १ प्रतिबभ्यज्ञाने प्रकारीभूतो धर्मः । यथा हृदो वह्निमान् इति ज्ञाने
प्रकारभूतो वह्निर्माह्यो भवति । तथाहि हृदो वह्नयभाववान् इति निश्चयस्य
प्रतिबध्ये हृदो वह्निमान् इति ज्ञाने प्रकारो वहिरस्तीति वह्निर्मायः इति
विज्ञेयम् । २ ग्रहणविषयः । यथा चक्षुर्मात्रग्राह्यो गुणो रूपम् इत्यादौ
रूपं ग्राह्यं भवति । ३ स्वीकार्यम् ( वस्तु ) इति काव्यज्ञा वदन्ति ।
ग्लहः - परस्परसंप्रतिपत्त्या कितवपरिकल्पितः पणो ग्लह इत्युच्यते
( मिताक्षरा अ० २।१९९ ) ।