This page has not been fully proofread.

व्यापकीयः ।
 
गुल्मः -- अनतिदीर्घनिबिडलता मालत्यादिः ( मिताक्षरा २ । २२९ )।
 
-
 
गोचरत्वम् – १ जन्यज्ञानविषयत्वम् । यथा घ्राणस्य गोचरो गन्धो
गन्धत्वादिरपि स्मृतः ( भा०प० श्लो० ५४ ) इत्यादौ गन्धरूपरसा-
दीनां गोचरत्वम् । २ मायावादिनस्तु ज्ञानमात्रविषयत्वम् । यथा
अवाङ्मनसगोचरम् ( वेदान्तसा० ) इत्यादौ इत्याहुः ( वाच० ) ।
३ ग्रहाणां गतिविशेष इति ज्योतिर्विद आहुः । ४ सूर्यादिग्रहगमन-
निमित्तशुभाशुभ निरूपणमिति मौहूर्तिका आहुः ( वाच० ) ।
 
गोत्रम् - १ ऋषीणां वंशपरंपरा ( मिता० ११५३ ) ( धर्मसि० ) । यथा
मम ( न्यायकोशकर्तुः ) शालङ्कायनगोत्रम् । गोत्रकाराव मुख्यत्वेनाष्टा
सुप्रसिद्धाः प्रवरमञ्जर्यामुक्ताः । यथाह बौधायनः विश्वामित्रो जमदग्नि-
र्भरद्वाजोथ गौतमः । अत्रिर्वसिष्ठः कश्यप इत्येते सप्त ऋषयः इति ।
तदर्थश्च सप्तानामृषीणामगस्त्याष्टमानां यदपत्यम् तद्द्वोत्रम् इति ( निर्ण०
सि० परि० ३ पृ० २७ ) । २ पर्वतादिरिति काव्यज्ञा आहुः ।
गौण:– १ गौण्या वृत्या प्रवृत्तः शब्दः । यथा ॐ गौणबेनात्मशब्दात्
ॐ ( ब्रह्मसूत्र० ११ १/६ ) इत्यादौ । यथा वा बहूनि मम नामानि
कीर्तितानि महर्षिभिः । गौणानि तत्र नामानि कर्मजानि च कानिचित् ॥
( भा० शान्ति० अ० ३४३ ) इत्यादौ । २ अमुख्यम् । यथा एव-
मागामियागीयमुख्यकालादधस्तनः । स्वकालादुत्तरो गौणः कालः सर्वस्य
कर्मणः ॥ (छन्दोग० ) इत्यादौ । ३ अप्रधानम् । यथा गां दोग्धि
पय इत्यादौ गौरप्रधानं कर्म । गौर्दुह्यते पय इत्यत्राप्रधाने गोरूप-
कर्मणि लकारः । अत्रोक्तम् गौणे कर्मणि दुह्यादेः प्रधाने नीढकृष्वहाम्
इति । अधिकं तु अप्रधानकर्मत्वादिशब्दव्याख्यानावसरे संपादितम् ।
गौणी - (लक्षणा ) [ क ] शक्यसदृशत्वप्रकारेण बोधकतया गौणी । यथा
अग्निर्माणवक इत्यादावग्निसदृशत्वादि नाम्यादि पदस्य गौणी वृत्तिः ( श०
प्र० पृ० २९ ) । इयमेव गौणी वृत्तिः । यथा लक्ष्यमाणगुणैर्योगाद्वृत्तेरिष्टा
गौणता (तन्त्रवा० १९४/२२ पृ० ३१८) ( काव्यप्र० उ०२)
 
तु