2023-02-20 00:54:54 by ambuda-bot
This page has not been fully proofread.
न्यायकोशः ।
२६९
●
गुरुत्वसिद्धिः ( दि० गु० पृ० २३२ ) । वल्लभाचार्यास्तु गुरुत्वं प्रत्यक्षम्
( स्पार्शनविषयः ) इत्याहु: (१०मा० ) ( वै० उ० ४।१।१०) ।
लीलावतीकारस्तु भस्मीभावदशायां गुरुत्वा पकर्षदर्शनात्तदन्यथानुपपत्त्या
गुरुत्वमपि पाकजं मेने । आचार्यास्तु कारणगुणपूर्वकमध्ये गुरुत्वे
पाकजत्वविशेषणमप्रवेशयन्तो गुरुत्वं पाकजं नेत्याविश्चक्रुः (प० मा० ) ।
सांख्यास्तु गुरुत्वं तमोगुणस्य धर्म इत्याहुः (वाच ० ) । अर्वाचीना डूण-
विद्याविशारदास्तु पृथिव्या दिगताकर्षणशक्तिविशेषेणैव पतनस्योपपत्तावलं
गुरुत्वेन इति मेनिरे । गुरुत्वं जलभूम्योः पतनकारणम् अप्रत्यक्षम्
पतनकर्मानुमेयम् संयोगप्रयत्नसंस्कार विरोधि । तस्य चाबादिपरमाणु-
रूपादिवन्नित्यानित्यत्वनिष्पत्तयः इति ( प्रशस्त ० २ पृ० ५२ ) ।
अत्रेदं विज्ञेयम् । जन्यगुरुत्वमेव पतनं प्रति कारणम् इति कार्यकारणभाव-
कल्पनात् आकाशादीनां गुरुत्वाभावो नैव । परमाण्वादीनां तु जन्य-
गुरुत्वाभावेन पतनासंभवः । पार्थिवजलपरमाण्वोर्गुरुत्ववत्तया तस्य मालादि-
देशसंयोगे पतनप्रतिबन्धकत्वाकल्पनेपि न परमाणुपतनापत्तिश्च इति
( राम० १।१ पृ० ५६ ) । गुरुत्वं स्पर्शविशेष: प्रत्यक्षसिद्ध इति
वल्लभाचार्याः (नैयायिकविशेषाः ) आहुः ।
गुरुधर्म:- [ क ] अव्यावर्तकपदार्थघटितो धर्मः । यथा प्रमेयघट इत्यादौ
घटत्वमपेक्ष्य प्रमेयत्वविशिष्टं घटत्वं गुरुधर्मः । [ ख ] अवच्छेदकत्वाद्य-
प्रयोजकपदार्थघटितो धर्मः । यथा पर्वतो वह्निमान्नीलघूमादित्यादौ
नीलघूमत्वं गुरुधर्मः । अत्र नीलघूमत्वं शुद्धघूमत्वमपेक्ष्य गुरुधर्म इति
व्याप्यतावच्छेदकं न भवतीति विज्ञेयम् । यथा वा कम्बुग्रीवादिमाना-
स्तीत्यादौ कम्बुग्रीवादिमत्त्वं गुरुधर्मः । अत्र च न्यायः संभवति लघौ
धर्मेवच्छेदकेतिप्रसङ्गानापादके गुरुधर्मो नावच्छेदकः इति । तेन च
लघोर्घटत्वस्याभावीय प्रतियोगिता यामवच्छेदकत्वसंभवे कम्बुग्रीवादिमत्त्वं
गुरुतया नावच्छेदकम् इति बोध्यम् । [ग ] बहुपदार्थोपस्थितिसापेक्षो
धर्मः । यथा घूमत्वापेक्षया नीलघूमत्वं गुरुधर्मः इत्यादौ ।
गुरुभम् – पुष्यनक्षत्रम् (पु० चि० पृ० ३५७ ) ।