2023-02-20 00:54:54 by ambuda-bot
This page has not been fully proofread.
२६८
न्यायकोशः ।
गुरु: - १ वक्ष्यमाणगुरुत्वविशिष्टपदार्थः । २ प्रभाकराख्यो मीमांसक-
विशेषः । अत्र प्रभाकरस्य गुरुनामप्राप्तौ आख्यायिका श्रूयते । अत्र
तुनोक्तं तत्रापिनोक्तम् अतः पौनरुक्तयम् इत्यत्र गुरोः संशये जाते
तच्छिष्येण प्रभाकरेण तदसंनिधाने तत्पुस्तके तुना तुशब्देन अपिना
अपिशब्देन इति पदच्छेदः कृतः । उत्तरकाले गुरुणा तदवलोकनेन
केन ईदृशः पदच्छेदः कृतः इति पृष्ठे अन्यशिष्यद्वारा प्रभाकरकृतत्वं
निश्चित्य तस्य संशयापनोदकत्वात् गुरुः इति संज्ञा कृता इति ( वाच • ·}।
३ निषेकादिक्रियाकर्तेति धर्मज्ञा आहुः । ४ सच्छास्त्रोपदेशक: आचा-
र्यादि: गुरुरिति मुमुक्षवः । ५ दीर्घाक्षरं गुर्विति वृत्तशास्त्रज्ञाः ।
६ सुराचार्य इति पौराणिकाः । ७ बृहस्पत्याख्यो नक्षत्र विशेष इति
ज्योतिःशास्त्रज्ञाः । ८ पित्रादिर्जनो गुरुरिति काव्यज्ञा भाइः । स गुरुर्यः
क्रियाः कृत्वा वेदमस्मै प्रयच्छति ( मिताक्षरा अ० १।३४ ) । ९ पञ्च-
कास्त्वष्टविज्ञेया गणश्चैक स्त्रिकात्मकः । वेत्ता नवगणस्यास्य संस्कर्ता
गुरुरुच्यते ॥ ( सर्व० सं० पृ० १६२ नकुली ० ) ।
गुरुत्वम् - (गुण:) आद्यपतनासमवायिकारणम् ( भा०प० लो० १५५)
( त० सं० ) ( त० ० ० २५० । यथा रक्तिकमाषकतोलकत्वादि
(दि० १ ) । भाद्यत्वमिह स्वसमानाधिकरणपतनप्रतियोगिकध्वंसा-
समानकालिकत्वम् । द्वितीयपतनादीनां प्राथमिकपतनध्वंससमानकालिक-
त्वान्निरास इति भावः ( नील० १ पृ० १४ ) । पतनं नाम अधोदेश-
संयोगानुकूलो व्यापारः । तच्च पतनं यथा वृक्षात्पर्णे पततीत्यादौ वृक्ष-
विभाग जनकव्यापारमारम्य भूमिसंयोगजनकव्यापारपर्यन्तं सर्वाः क्रियाः ।
तत्र प्राथमिकव्यापारो गुरुत्वजन्यः । द्वितीयादिस्तु वेगजन्यः इति
( वाक्य० १५०९) (३० ५/१/७-१८ ) । इदं गुरुत्वम् पृथिवी-
जलवृत्ति अतीन्द्रियं च । नित्यगतं नित्यम् अनित्यगतमनित्यम् ( भा०
प० श्लो० १५४ - १५५ ) । गुरुत्वं पतनानुमेयम् । अधोवच्छेदेन
संयुक्तसमवायात् । अनुमानप्रयोगस्तु संयोगासमवधानकालीना क्रिया
गुणासमवायिकारणिका क्रियात्वात् संयोगजन्यक्रियावत् इत्यनुमानेन
-
·