2023-02-20 00:54:53 by ambuda-bot
This page has not been fully proofread.
न्यायकोशः ।
२६५
सन्ति इति (प० मा० ) । संख्यादयः पञ्च सर्वद्रव्यसाधारणा भवन्ति ।
परत्वापरत्वे तु मूर्तद्रव्य एव वर्तेते । भावना धर्माधर्मो दुःखद्वेषौ एते
जीवात्मन्येव वर्तन्ते । रूपरसस्पर्शेकत्व परिमाणैक पृथक्त्वगुरुत्वसांसिद्धिक-
द्रवत्वस्नेहा नित्यगताः नित्याः अनित्यगतास्त्वनित्या भवन्ति । एतदन्ये
गुणा नित्यानित्यगताः अनित्या एव भवन्ति ( प्र० प्र० ) । अत्रेदं
बोध्यम् । रूपरसगन्धस्पर्शा: नित्येपि पृथिवीपरमाणौ वर्तमानाः सर्वे
अनित्या एव पाकजत्वात् इति ज्ञेयम् । जीवात्मसमवेता बुद्धिसुख
दुःखेच्छाद्वेषप्रयत्नाः शब्दश्वैते द्विक्षणावस्थायिनस्तृतीयक्षणे नश्यन्ति इति
( त० कौ० ) । अत्रायं विवेकः । संनिकृष्टत्वविप्रकृष्टत्वाम्यां परत्वा-
परत्वे उत्पद्येते इत्यतः परत्वापरत्वे संनिकृष्टत्वविप्रकृष्टत्वाभ्यामतिरिक्ते
गुणावेवेति वैशेषिक मतम् । अत्र सूत्रं प्रमाणम् । एकदिक्कालाभ्यामेक-
कालाभ्यां संनिकृष्टविप्रकृष्टाभ्यां परमपरं च ( वै० ७१२/२१ ) इति ।
नव्यास्तु संनिकृष्टत्वविप्रकृष्टत्वाभ्यां दैशिकपरत्वापरत्व व्यवहारस्य ज्येष्ठत्व-
कनिष्ठत्वाभ्यां कालिकपरत्वापरत्वव्यवहारस्य चोपपत्तेः न तयोर्गुणान्तर-
स्वमिति ( दि० गु० पृ० २०९ ) । पृथक्त्वं चान्योन्याभावान्नाति-
रिच्यते इति चाहुः । एते रूपादयो गुणाः समवायनिराकरणेन द्रव्या-
मिन्ना एवेति सांख्या वेदान्तिनश्च मन्यन्ते । तत्र वैशेषिकनैयायिक-
सिद्धान्तसिद्धेषु चतुर्विंशतौ गुणेषु मध्ये रूपरसगन्धस्पर्शाश्चत्वारः
प्रत्येकमुद्भूतानुद्भूतमेदेन द्विविधाः । अनुद्भूतरूपादयो घ्राणरसनाचक्षु-
स्त्वगादौ तिष्ठन्ति । उद्भूतरूपादयस्तु घटपटादौ योग्यपृथिव्याद्या-
रम्भक परमाणुयणुकत्र्यणुकादौ च तिष्ठन्ति ( त० कौ० ) । केचित्तु
चित्राचित्रभेदेनापि ते द्विविधाः । तत्र नीलपीतादिभिर्मधुरतिक्तादिभिः
सुरभ्यसुरभ्यादिभिः सुकुमारकठिनाद्यैश्वावयवैरारब्धपटादिषु चित्राः अ
न्यत्राचित्राः इति मन्यन्ते ( त० कौ० ) । सिद्धान्तिनस्तु रूपादिषु चतुर्षु
रूपस्यैव
चित्राचित्रभेदेन द्वैविध्यमवय विचाक्षुषप्रत्यक्षान्यथानुपपत्त्या
कल्प्यते । न तु रसादीनां द्वैविध्यम् । तेषां चित्रविधत्वानङ्गीकारात्
इति प्राड: (, त०) दी० १ ) । प्रकारान्तरेण च ते पुनश्चत्वारोपि पाक-
O
३४ न्या० को●
-