This page has not been fully proofread.

न्यायकोशः ।
 
सामान्ययोः सर्वेन्द्रियमाद्यत्वम् ( बै० उ० ४।१।१३ ) । परत्वापरत्व-
द्वित्वपृथक्त्वादयो बुद्धयपेक्षगुणाः । रूपरसगन्धस्पर्शशब्दपरिमाणैकत्वै-
कपृथक्त्वस्नेहा: सजातीयारम्भकगुणाः । सुखदुःखेच्छाद्वेषप्रयत्नाः
स्वासमानजातीयारम्भका गुणा भवन्ति । संयोगविभागसंख्या: गुरुत्व-
द्रवत्वोष्णस्पर्शज्ञानधर्माधर्मसंस्काराः समानासमानजातीयारम्भका गुणाः ।
बुद्धिसुखदुःखेच्छाद्वेषभावनाशब्दाः स्वाश्रयसमवेतविशेषगुणारम्भकाः ।
 
२६४
 
। गुरुत्वद्रबत्व-
रूपरसगन्धस्पर्श परिमाणस्नेहप्रयत्नाः परत्रारम्भकाः । संयोगविभागसंख्यैक-
पृथक्त्वगुरुत्वद्वत्ववेगस्नेहप्रयत्नधर्माधर्मास्तूभयत्रारम्भकाः
वेगस्थितिस्थापक प्रयत्नधर्माधर्मसंयोग विशेषाः क्रियाहेतवः । परत्वापरत्व-
द्वित्वद्विपृथक्त्वादयो गुणा अकारणानि भवन्ति । स्वध्वंसप्रत्यक्षातिरिक्तं
प्रत्यकारणानीत्यर्थः ( दि० गु० ) । रूपादिसप्तकम् गुरुत्वद्रवत्वस्नेह-
वेगस्थितिस्थापकपरत्वापरत्वानि चाश्रयव्यापीनि भवन्ति । रूपरसगन्ध-
स्नेहगुरुत्वद्रबत्व स्थितिस्थापका एते स्पर्शव्याप्या भवन्ति । बुद्धिसुखदुःखे-
च्छाद्वेषप्रयत्नधर्माधर्मभावना एते गुणा आत्ममात्रवृत्तयो भवन्ति ।
बुद्धीच्छाद्वेषप्रयत्नभावनानामेव सविषयकत्वम् । अत्रेदं बोध्यम् । इच्छा-
दीनां जनकज्ञानसविषयत्वेनैव सविषयत्वव्यवहार इति तु प्राश्थः वाच-
स्पतिमिश्रादयः आहुः । व्यवहारबलेन ज्ञानवदिच्छादेरपि साक्षादेव
सविषयतेति तु नव्या आहुः (प० मा० ) । रूपद्रवत्वे पृथिव्यप्ते-
जोमात्रवृत्तिनी भवतः । संख्याप्रचयपरिमाणान्येव परिमाणासमवाय-
कारणानि भवन्ति । संयोगविभागशब्दा एव शब्दासमवायिकारणानि
भवन्ति । स्पर्शगुरुत्वप्रयत्नवेगा एवाभिघातहेतवो भवन्ति । एक वैक-
पृथक्त्वसंयोगविभागाः एवानेकाश्रितगुणारम्भका भवन्ति । परत्वापरत्वे
एव दिक्कालपिण्डसंयोगजन्ये भवतः । परत्वापरत्वचरमज्ञानद्वित्वद्विपृथ-
क्त्वादय एव निमित्तनाशनाश्या भवन्ति । एतदन्य एव गुणा गुणान्तरवि-
नाश्या भवन्ति । अपार्थिव परमाणुगत रूपरसस्पर्शसांसिद्धिकद्रवत्वोहगुरु-
त्वस्थितिस्थापकनित्यद्रव्यगतैकत्वपृथक्त्वपरिमाणेश्वरबुद्धीच्छा प्रयत्ना एते
नित्या अकार्याश्च सन्ति । एतदन्ये गुणास्तु अनिव्याः कार्यान्व
 
-