2023-02-20 00:54:53 by ambuda-bot
This page has not been fully proofread.
न्यायकोशः ।
२६३
रूपम् रसः गन्धः स्पर्शः परत्वम् अपरत्वम् गुरुत्वम् द्रवत्वम्
स्नेहः वेगः स्थितिस्थापकः एते मूर्तगुणा इत्युच्यन्ते । बुद्धिः सुखम्
दुःखम् इच्छा द्वेषः प्रयत्नः धर्मः अधर्मः भावना शब्दः एते
अमूर्तगुणाः । संख्या परिमाणम् पृथक्त्वम् संयोगः विभागः एते
गुणा: मूर्तामूर्तगुणाः । संयोगः विभागः द्वित्वादिकाः संख्याः द्विपृथ-
क्त्वादयः एते अनेकाश्रिता गुणाः । तद्भिन्नाः शिष्टास्त्वेकैकवृत्तयः ।
बुद्धिः सुखम् दुःखम् इच्छा द्वेषः प्रयत्नः धर्मः अधर्मः रूपम् रस:
गन्ध: स्पर्श: स्नेहः सांसिद्धिकद्रवत्वम् भावना शब्दः एते विशेषगुणाः ।
संख्या परिमाणम् पृथक्त्वम् संयोगः विभागः परत्वम् अपरत्वम्
नैमित्तिकद्रवत्वम् गुरुत्वम् वेगः एते सामान्यगुणाः । संख्या परिमाणम्
पृथक्त्वम् संयोगः विभागः परत्वम् अपरत्वम् द्रवत्वम् स्नेहः एते
द्वीन्द्रियप्राह्मगुणाः । रूपम् रसः गन्धः स्पर्शः शब्दः एते बाहकै-
केन्द्रियग्राह्यगुणाः । गुरुत्वम् अदृष्टम् ( धर्माधर्मो ) भावना एते
अतीन्द्रियगुणाः । बुद्धयाद्यष्टकम् भावना शब्दश्च एते अकारणगुणो-
त्पन्नाः । अपाकजा रूपरसगन्धा: अनुष्णः स्पर्श: अपाकजं द्रवत्वम्
स्नेहवेगगुरुत्वैकत्वानि पृथक्त्वम् परिमाणम् स्थितिस्थापकः एते
कारणगुणोत्पन्नाः । संयोगः विभागः वेगः एते कर्मजा गुणाः । रूपम्
रसः गन्धः स्पर्श: एकत्वम् परिमाणम् एकपृथक्त्वम् स्नेहः शब्दः
स्थितिस्थापकश्च एते असमवायिकारणान्येव भवन्ति । बुद्ध्यादयोष्टौ
भावना एते आत्ममात्रवृत्तिविशेषगुणाः निमित्तकारणान्येव । न तु
असमवायिकारणानि भवन्ति । उष्णस्पर्श: गुरुत्वम् वेगः द्रबत्वम्
संयोगविभागौ एते गुणा असमवायिकारणानि निमित्तकारणानि च
भवन्ति । बुद्ध्यादयोष्टौ शब्द: भावना संयोगः जिभागः एते अव्याप्य-
वृत्तिगुणा उच्यन्ते ( भा०प० गु० लो० ८७ - १०० ) । सविक-
ल्पकज्ञानम् इच्छा प्रयत्नः सुखम् दुःखम् द्वेषः जीवात्मगतमेकत्वम्
परिमाणम् एते आत्मयोग्यगुणा भवन्ति । रूपादीनामे कैकेन्द्रियप्राशत्वम्
संख्यादीनां द्वीन्द्रियग्राह्यत्वम् सुखादीनां मानसत्वम् सत्तागुणत्वयोः