This page has not been fully proofread.

न्यायकोशः ।
 

 
गुणेस्त्रियाम् ( पाणिनिसू० २।३।२५) इति तृतीयापञ्चमीविधायक-
सूत्रस्थगुणशब्दस्यार्थः । यथा वहिमान् घूमात् इत्यत्र घूमो गुणः ।
जाड्यात् जाड्येन वा बद्धः इत्यादौ जाड्यादिर्गुणः । अत्र घूमस्य
स्वज्ञाप्यवड्याश्रये आश्रितत्वाद्गुणत्वम् । जाड्यस्य च स्वप्रयोज्यबन्धना-
श्रये आश्रितत्वाद्गुणत्वम् ( व्युत्प० का० ३) । २५ रूपादयश्चतु-
विंशतिर्गुणा इति वैशेषिका नैयायिकाश्चाहुः । तलक्षणं च [ क ]
द्रव्याश्रय्य गुणवान् संयोगविभागेष्वकारणमनपेक्ष इति गुणलक्षणम्
( वै० १११११६ ) । [ ख ] सामान्यवानसमवायिकारणमस्सन्दात्मा
( त० मा० अर्थनि० पृ० ३२ ) । [ ग ] द्रव्यकर्मभिन्नत्वे सति
सामान्यवान् । [घ ] गुणत्वरूपजातिमान् (त० दी० १ पृ० ६ )
( त० कौ० १ पृ० १ ) । गुणत्वं च समवायिकारणावृत्तिनित्यवृत्ति-
सत्तासाक्षाद्याप्यजातिमत्त्वम् । कार्यासमानाधिकरणकर्मावृत्तिजातिमत्त्वं
वा इत्यादि ( वै० उ० ७११११ पृ० २८१ ) । अथवा समवायि-
कारणासमवेतासमवायिकारणभिन्नसमवेतसत्तासाक्षाद्व्याप्यजातिः ( सर्व ०
पृ० २१५ औलू० ) । असमवायिकारणभिन्नाश्च आत्मविशेषगुणाः
बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मभावनाः भवन्तीति विज्ञेयम् । एते-
षामसमवायिकारणत्वं नैयायिका न स्वीकुर्वन्ति । यद्वा द्रव्येतरवृत्तितान-
वच्छेदकद्रव्यसामान्य
वृत्तितावच्छेदकपदार्थविभाजकोपाधिमत्वम् (वाक्य ०
१ पृ० २ ) । अथवा द्रव्यावृत्तिनित्य वृत्तिजातिमत्त्वम् ( ल० व०
पृ० ४ ) । अथवा द्रव्यत्वव्यापकतावच्छेदकसत्तान्यजातिमत्वम् (मु०
गु० पृ० १९१ ) । न्यायनये गुणा धतुर्विंशतिः । रूपम् रसः गन्धः
स्पर्श: संख्या परिमाणम् पृथक्त्वम् संयोगः विभागः परत्वम् अपरत्वम्
गुरुत्वम् द्रवत्वम् स्नेहः शब्दः बुद्धिः सुखम् दुःखम् इच्छा द्वेषः प्रयत्नः
धर्मः अधर्मः संस्कारः इति । रूपाद्यपरत्वान्ताः एकादश बुद्ध्यादि-
प्रयत्नान्ताः षट् चेति सप्तदश गुणा इति कणादसूत्रे ( वै० १/१/६ )
उक्तम् । सूत्रस्थचकारो गुरुत्वादीनवशिष्टान् सप्त समुश्चिनोतीयेषं
चतुर्विंशतिर्गुणा भवन्तीति प्रशस्तपादाचार्यादय आहुः । अत्रेदं बोध्यम् ।
 

 
२६२