This page has not been fully proofread.

२६०
 
न्यायकोशः ।
 
गर्वः – १ अभिमानः । २ अवज्ञाविशेषः । तत्रोक्तम् । ऐश्वर्यरूपतारुण्य-
कुलविद्याबढैरपि । इष्टलाभादिनान्येषामवज्ञा गर्व ईरितः ॥ इति ।
३ मदः । तदुक्तम् गर्यो मदः प्रभावश्रीविद्यासत्कुलतादिजः इति । व्यभि-
चारिभावः इत्यालंकारिका वदन्ति । स च अवज्ञासविलासाङ्गदर्शना-
विनयादिकृत् इति ( वाच० ) ।
 
गलग्रहः - कृष्णपक्षे चतुर्थी च सप्तम्यादिदिनत्रयम् । त्रयोदशीचतुष्कं च
अष्टावेते गलग्रहाः ॥ (पु० चि० पृ० ४३८ ) ।
 
गवीधुकः – अरण्यस्थो गोधूमः (जै० न्या० अ० १० पा० ८ अधि० ४ ) ।
 
-
 
गानम्—[ क ] स्वरविशेषेण निष्पाद्यः परिणतः शब्दविशेषः । [ ख ]
गीतिः । सा च आभ्यन्तरयत्नजनितस्वरविशेषाणामभिव्यञ्जिका क्रिया ।
यथा सामगानम् । गानं हि द्विविधम् । वैदिकं लौकिकं च । तत्र
वैदिकलक्षणम् जैमिनिसूत्रभाष्ये ( ९१ / २ /२९ ) प्रतिपादितम् तत्
तत्र द्रष्टव्यम् । लौकिकं तु धातुमात्रासमायुक्तं गीतमित्युच्यते बुधैः ।
तत्र नादात्मको धातुर्मात्रा यक्षरसंचयः ॥ गीतं च द्विविधं प्रोक्तं यत्र-
गात्रविभागतः । यन्त्रं स्याद्वेणुवीणादि गात्रं तु मुखजं मतम् ॥ पुनर्गीतं
निबन्धानिबन्धभेदेन द्विविधम् । तत्र निबन्धं तालमानरसाञ्चितम् ।
अनिबन्धं तु वर्णादिनियमशून्यम् इत्यादि ( संगीत० दा० ) ( वाच ० ) ।
 
गान्धर्वः—( विवाहः ) गान्धर्वः समयान्मिथः ( याज्ञवल्क्य० अ० १
को० ६१ ) ।
 
गीतम् – १ छान्दसहार्दएतदन्यतरस्वरेण गुणकीर्तनम् । यथा ध्रुवकादि
गानम् । २ गान्धर्वशास्त्रसमयानुसारेण महेश्वर संबन्धिगुणधर्मादिनिमि-
तानां चिन्तनमिति नकुलीशाचार्यो वक्ति ( सर्व० सं० पृ० १६९
नकु० ) । अधिकं तु गानशब्दव्याख्यानावसरे संपादितम् ।
 
गुच्छ : – अवल्लीरूपाः असरलप्रायाः कुरण्टकादयः ( मिताक्ष० अ० २
लो० २२९ ) ।