This page has not been fully proofread.

२५८
 
न्यायकोशः ।
 
धातवः ते ज्ञानार्थकाः इति वैयाकरणानां नियमोनुसंधेयः । ३ परिणामः ।
४ प्रमाणम् । ५ सरणिः । ६ स्थानम् । ७ स्वरूपम् । ८ विषयः ।
९ अभ्युपायः इति काव्यज्ञा आहुः । १० नाडीव्रणमिति भिषजः ।
११ प्रादयो निपाताः शब्दविशेषा इति शाब्दिका आहुः ( वाच० ) ।
गन्धः - (गुणः ) [ क ] घ्राणग्राह्यो योर्थः सः । स च पृथिवीमात्रवृत्तिः
 
( त० सं० ) बाह्यैकेन्द्रियप्रायश्च । यथा वर्जयेन्मधु मांसं च गन्धं माल्यं
रसान् स्त्रियः ( मनु० ) इत्यादौ । यथा वा पृथिवी गन्धवतीत्यादौ
( त० सं० ) । गन्धलक्षणं च गन्धत्वमेव । तच्च घ्राणमात्रमाद्यगुणत्व-
व्याप्यजातिमत्त्वम् । अथवा पृथिवीमात्रवृत्तिवृत्तिर्गुणत्वसाक्षाद्याप्या च
या जाति: तादृशजातिमत्त्वम् (वै० उ० ७११/६ ) । तादृशजातिस्तु
गन्धत्वम् । [ख ] घ्राणमात्रप्राह्यो गुण: (वै० उ० ७७११६ ) ।
अत्र मात्रपदप्रयोजनं चिन्त्यम् । [ग] घाणमात्रमाण जातिमान् ( त ०
कौ० १ पृ० ४ ) । स च गन्धो द्विविधः सुरभिः असुरभिश्च ।
द्विविधोपि गन्धः पृथिव्यामेवास्ति । स च पाकजः अनित्यश्च
( त० कौ० १ पृ० ४ ) । पाकजप्रक्रिया त्वन्यत्र ( वै० ७।१।६ )
द्रष्टव्या । जलादौ तूपाधिकृतो गन्धः । उत्कटानुत्कटमेदेनापि गन्धो
द्विविधः । तत्र कस्तूर्यादावुत्कट: । पाषाणादौ त्वनुत्कटः । तत्रोत्कट -
गन्ध एवोपलभ्यते न त्वनुत्कटः इति । एवम् रसादयो ज्ञेयाः । शास्त्रा-
न्तरे तु गन्धो दशविधः इत्युक्तम् । यथा इष्टश्वानिष्टगन्धश्च मधुरोम्लः
कटुस्तथा । निर्हारी संहतः स्निग्धो रूक्षो विशद एव च ॥ एवं दश-
विधो ज्ञेयः पार्थिवो गन्ध इत्युत इति । तत्रेष्टः १ कस्तूरिकादौ ।
अनिष्ट: २ विष्ठादौ । मधुरः ३ मधुपुष्पादौ । अम्लः ४ तिन्तिड्यादौ ।
कटुः ५ मरिचादौ । निर्हारी ६ हिङ्ग्वादौ । संहतः चित्रगन्धः
७ अनेककल्कद्रव्यादौ । स्निग्धः ८ सद्यस्तप्तघृतादौ । रूक्षः ९ सार्षप-
तैलादौ । विशदः १० शाल्यादौ इति ( आश्व० अ० ५० ) ( वाच० ) ।
गमकत्वम् – नित्यसाकाङ्क्षत्वम् । यथा चैत्रस्य गुरुकुलम् मैत्रस्य दासभार्ये-
त्यादौ गमकत्वात्समासः इति । तदुक्तं महाभाष्ये सापेक्षत्वेपि गमकत्वा-
-