This page has not been fully proofread.

न्यायकोशः ।
 
( माघ ० स० ४ लो० ५५) इत्यादौ । यथा वा योगिनस्तु विवे-
कख्यातिरविप्लवा हानोपाय: ( पात० सू० २/२६ ) । प्रसं-
रूयानेप्यकुसीदस्य सर्वथा विवेकरूयातेर्धर्ममेघः समाधि: ( पात ०
सू० ४।२८) इत्यादौ पतञ्जलिना निर्दिष्टा विवेकख्यातिः । अत्र
वदन्ति । आत्मख्यातिरसत्ख्यातिरख्यातिः ख्यातिरन्यथा । तथानिर्वच-
नख्यातिरित्येतत्ख्यातिपञ्चकम् ॥ १ ॥ योगाचारा माध्यमिकास्तथा
मीमांसका अपि । नैयायिका मायिनश्च पञ्च ख्याती: क्रमाज्जगुः ॥ २ ॥
रामानुजीयास्तु सत्ख्यातिमाहुः । तत्रात्मख्यातिर्नाम आत्मनो बुद्धेः
ख्यातिर्विषयरूपेण प्रतिभासः । इदं रजतमिति बुद्धिरेव रजतरूपेणाव-
भासते । न तत्र विषयान्तरापेक्षा । अयं घट इत्यादिषु सर्वत्र बुद्धेरेव
विषयाकारोल्लेखसंभवेनात्रापि तथैवौचित्यात् । प्रयोगश्च विमतं रजतं
बुद्धिरूपं चक्षुरादिसंप्रयोगमन्तरेणापरोक्षत्वात्संमतबुद्धिवदिति विज्ञान-
वादिनो बौद्धाः । असत्ख्यातिर्नाम असतो रजतादेः ख्यातिः प्रतीतिरिति
शून्यवादिनो बौद्धाः । वाचस्पतिमिश्रा अपि शुक्ताविदं रजतमिति ज्ञाने
प्रसिद्धयोः शुक्तिरजतत्वयोरलीक एत्र समवायो भासत इत्यसत्ख्याति-
मङ्गीचक्रुः । मीमांसकास्त्वख्यातिमाः । अख्यातिर्नाम न ख्यातिर-
ख्यातिरप्रतीतिः । शुक्तिरजतस्थल इदं रजतमित्यत्रेदमंश एव प्रत्यक्ष-
प्रतीतिविषयः । न रजतांश: । तस्य चक्षुराद्यसंनिकर्षात् । रजतमिति
तु स्मृत्याकारदर्शन मिति । अन्यथाख्यातिर्नाम अन्यस्यान्यरूपेण प्रतीतिः ।
देशकालान्तरगतं रजतमेव शुक्तिसंप्रयुक्तेन दोषोपहतेनेन्द्रियेण शुक्त्या-
त्मना गृह्यते । न चैवमननुभूतस्यापि ग्रहणं स्यादिति वाच्यम् ।
सादृश्यादेर्नियामकत्वात् । प्रयोगश्च विवादपदं शुक्तिशकलं रजतज्ञान-
विषयो रजतोपायान्यत्वे सति रजतार्थिप्रवृत्तिविषयत्वात्सत्यरजतवत् ।
रजतस्योपाय: कारणं खन्यादिः । तस्य रजतार्थिप्रवृत्तिविषयत्वेपि
रजतज्ञानविषयत्वाभावाद्यभिचारः । तद्वारणाय सत्यन्तं विशेषणमुपात-
मिति नैयायिकाः । मायिनस्तु अनिर्वचनीयख्यातिमाहुः । अनिर्वचनीय-
ख्यातिर्नाम सत्त्वेनासवेन चानिर्वचनीयस्य रजतादेः ख्यातिः प्रतीतिः ।