This page has not been fully proofread.

न्यायकोशः ।
 
क्षितम् – तेषु तेषु विषयेषु क्षिप्यमाणमस्थिरं चितम् ( सर्व० सं०
 
-
 
पृ० ३५४ पात० ) ।
 
क्षुद्रम् - मृद्भाण्डासनखट्टास्थिदारुचर्मतृणादि यत् । शमीषान्यं कृतानं च
क्षुद्रं द्रव्यमुदाहृतम् ॥ ( मिता० २ । २७५ )।
 
क्षुपः - करवीरादयः सरलप्रायाः ( मिता० २/२२९ ) ।
 
क्षेत्रम् – शरीरम् । इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते । एतयो वेत्ति तं
प्रादुः क्षेत्रज्ञ इति तद्विदः ॥ ( गीता १३।१ ) ।
 
-
 
क्षेत्रज्ञः – जीवात्मा । शरीरसंबन्धेन ज्ञानवान् । यथा अहम् त्वम् इत्यादि ।
क्षेत्रं शरीरम् आत्मत्वेन जानातीति क्षेत्रज्ञ इति व्युत्पत्तिः ।
 
-
 
क्षेमः – १ [ क ] सिद्धस्य रक्षणम् ( दि० गु० ) । [ख] लब्धस्य
रक्षणम् ( आ० त० ) । यथा उपेयादीश्वरं चैव योगक्षेमार्थसिद्धये
( याज्ञ ० ) इत्यादौ । २ विद्यमानसत्ताकस्य वस्तुनः स्वाधिकरणे स्वविशिष्ट-
बुद्धि नियामकसंबन्धविशेष व्यवस्थापनम् । यथा दुःखात्यन्ताभावस्य मोक्ष-
त्ववादिमते अत्यन्ताभावस्याजन्यत्वेपि स्वप्रतियोगिदुः खानुत्पादनद्वारा
स्वाधिकरणे स्वविशिष्टबुद्धिनियामकदुःखाकाली नस्वरूपसंबन्ध निर्वाहकत्वं
तत्त्वज्ञानस्येति दुःखात्यन्ताभावस्य क्षैमिकी ( क्षेमनिर्वाह्या ) तत्वज्ञान-
साध्यता । यथा वा कृतिसाध्यत्वस्य विध्यर्थत्वमते एकादश्यामुपवसेत्
इत्यादावहोरात्रभोजनाभावस्य क्षैमिकं ( क्षेमनिर्वाह्यम् ) कृतिसाध्यत्वम्
इति ( वाच० ) । ३ कुशलमिति काव्यज्ञा वदन्ति ।
 
ख.
 
-
 
खञ्जः - सहजसंस्थानशून्यचरणवान् । यथा पादेन खझ इत्यत्र । अत्र
विकृतपादवृत्तित्य विशिष्टं यत् सहजसंस्थानशून्यत्वं तद्वञ्चरणवान् चरण-
विकारप्रयुक्तस्य यथोचितसंस्थान वैधुर्यस्याश्रयीभूतचरणवान् इति वा
बोधः । एवम् श्रोत्रेण बधिरः कायेन वामनः इत्यादावप्युक्तैव रीतिः
( श० प्र० लो० ९२ पृ० ११८ ) । खजलक्षणं च भावप्रकाश
उक्तम् । यथा वायुः कव्याश्रितः सक्नः कण्डरामाक्षिपेचदा । खजस्तदा