This page has not been fully proofread.

न्यायकोशः ।
 

 
नाधारत्वम्
 

 
अत्रोक्तं भावप्रकाशे कफस्यैतानि नामानि हेदनश्चावलम्बनः । रसनः
स्नेहनश्चापि श्लेष्मणः स्थानभेदतः ॥ इति ( वाच ० ) । [ ख ] क्षरणम् ।
स्वेद इति यावत् ( दि० १ पृ० ७० ) । [ग] जलविकार विशेषः ।
यथा तदञ्जनक्लेदसमाकुलाक्षम् ( रघु० ७१२७) इत्यादौ ( बाच० ) ।
क्लेश:- क्लेशाः पुनः पञ्चधा प्रसिद्धा अविद्यास्मितारागद्वेषाभिनिवेशाः (पात ०
सू० २१३) ( सर्व० सं० पृ० ३५८ पात ० ) । सांसारिक विविधदु: खोपहा-
रहेतुत्वेन पुरुषं क्लिश्नन्तीति क्लेशाः ( सर्व० सं० पृ० ३६५ पात० ) ।
क्षण: - १ ( काल: ) [ क ] वर्तमानार्थग्राहित्वेन स्वोत्पत्त्याश्रयः क्षणः
( मू० म० १ ) । तल्लक्षणं तु क्षणत्वमेव । तच्च स्ववृत्तिध्वंसप्रतियोग्य-
स्ववृत्तिध्वंसप्रतियोगिप्रतियोगिकयावद्धंसविशिष्टसमयत्वम्
स्ववृत्तियावङ्कंसविशिष्टसमयत्वम् स्ववृत्तियाषदभावविशिष्टसमयत्वम् स्वस्व-
पूर्ववर्तिपावत्पदार्थविशिष्टसमयत्वं वा । स्वपूर्वत्वं च स्वाधिकरणयावत्काल-
वृत्तिध्वंसप्रतियोगित्वम् । जन्यमात्रस्य कालोपाधित्वाददोषः (दीधि० २)
( प० म० ) । अथवा खवृत्तियावद्धंस विशिष्टत्वम् ( ग० सार्वभौम-
पक्षता ०)। [ख] स्ववृत्तिध्वंसप्रतियोगिकालावृत्तिस्वविशिष्टस्ववृत्तित्ववान् ।
अत्र स्वपदद्वयम् यत्समयवृत्तिस्वमुत्पत्तित्वेनामिमतं तत्समय व्यक्तिपरम् ।
कालावृत्तित्वं च तादृशकालवृत्तित्वसामान्याभावः ( राम० १ काल●
पृ० ९२ ) । इदं च महाप्रलये क्षणव्यवहारो नास्ति इत्यभिप्रेत्योक्तम् ।
[ग] स्ववृत्तिध्वंसप्रतियोगिप्रतियोगिकयावङ्कंसविशिष्टसमयः । तादृश-
समय: चरमध्वंस एवेति भावः ( दि० १ काल० पृ० ९२ ) । अयं
क्षणो महाप्रलयव्यवहारविषयो भवतीति ज्ञेयम् । [घ ] स्वाधेयपदार्थ-
प्रागभावानाधारः समयः ( आत्मत० शिरोम ० ) । [ ] निमेष-
क्रियावच्छिन्नकालस्य चतुर्थभागः क्षणः ( चि० ४ ) । यथा क्षणादिः
स्यादुपाधितः ( भा०प० श्लो० ४७ ) इत्यादौ । [च ] त्रिंशस्कलारूपः
काळांशः । यथा स्थिताः क्षणं पक्षमसु ताडिताधराः ( कुमा० ५/२४ )
इत्यादौ । [छ ] अवसरः । यथा स्थानं नास्ति क्षणो नास्ति नास्ति
प्रार्थयिता नरः । तेन नारद नारीणां सतीत्वमुपजायते ॥ इत्यादौ ।