This page has not been fully proofread.

मानोर्थः क्रिया इति शाब्दिका वदन्ति । अत्रोष्यते । क्रिया द्विविधा
साध्या सिद्धा च । तत्र धातुवाच्या क्रिया साध्या । सैवासत्त्वरूपेत्युच्यते ।
यथा पचति करोतीत्यादौ क्रिया साध्या । घञादिप्रत्ययप्रतिपाद्या तु
क्रिया सिद्धा । यथा पाक इत्यादि । तदुक्तम् यावत्सिद्धमसिद्धं वा
साध्यत्वेनाभिधीयते । आश्रितक्रमरूपत्वात्सा क्रियेत्यभिधीयते ॥ गुणी-
भूतैरवयवैः समूहः कमजन्मनाम् । बुद्ध्या प्रकल्पितामेदः क्रियेति
ब्यपदिश्यते ॥ इति ( ल० म० ) ( बै० सा० ) । अत्र साध्यत्वं च
निष्पाद्यत्वमेव । केचित्त पूर्वापरीभूतावयवत्वसमानाधिकरणं कारका-
म्वयादियोग्यतावच्छेदकं क्रियान्तराकाङ्क्षानुत्थापकतावच्छेदकं च यद्वैजात्यं
तद्रूपं साध्यत्वम् । सिद्धत्वं तु क्रियान्तराकोत्थापकतावच्छेदकं यद्वै-
जात्यं तद्रूपम् । यथा पाक इत्युक्तेस्ति भवतीत्यादिक्रियान्तरा कामोत्थाना-
सिद्धत्वम् । पचतीत्युक्ते तु तदनुत्थानात्साध्यत्वम् इत्याहुः ( ल० म० ) ।
अथवा अत्र सिद्धत्वं च यद्धर्मवत्ताज्ञानात् क्रियान्तरादयः तादृश-
ज्ञाने प्रकारतयावच्छेदकं यत् तत् । तद्भित्रत्वम् ज्ञाननिष्ठतादृशा-
कायापकत्वाभावावच्छेदकं वा साध्यत्वम् (वै० सा० ८० ) ।
तेन अपश्चत् पक्ष्यति पचति इत्यादौ सर्वत्र साध्यत्वेनास वरूप-
स्वेनाभिधीयमाना क्रियेति क्रियाशब्दस्य रूढिरनेन दर्शिता इति
ज्ञेयम् । अथवा साध्यत्वं लिङ्गसंख्यानन्वयित्वम् । तद्विपरीतं सिद्धत्वम्
(बाच ० ) । अत्रोक्तं हरिणा साध्यत्वेन क्रिया तत्र तिङ्पदैरभिधीयते
इति ( वाक्यप० ) । तिङ्पदशब्देन तिङन्तं पदं गृह्यते । क्रियापद मिति
याषत् । तथा च तिङ् परित्यस्य क्रियापदघटितैर्धातुमिरित्यर्थः । अत्रायं
बिवेकः । पाक इत्यादौ धातुना साध्यत्वेनोपस्थाप्यायाः क्रियायाः
सिद्धक्रियारूपे घञर्थे विशेषणत्वम् । पचत्यादौ तु नैवम् इति ( वाच० )।
प्रवृत्तिविषयः क्रियेति मीमांसका: ( मू० म० १ ) । २ श्रौतस्मार्तकर्मा-
नुष्ठानं शक्तितः क्रियेति रामानुजीयाः ( सर्व० सं० पृ० १२४
रामानु० ) । ३ चलनात्मकं कर्म यथा परापरत्वमूर्तस्वकियावेगाश्रया
अमी (मा० १० लो० २५ ) इत्यादौ क्रियाशब्दार्थः कर्म । 8 प्रयोगः ।
 
A