This page has not been fully proofread.

मन्थक्कचरितं नाम द्वितीय उपोद्धातः ।
 
व्याख्यानदीधितेष्टीकां संगतिनानीं लक्षसंख्यकाम् B बौद्धाधिकारव्याख्याम्,
C दीषितेश्च व्याख्यां गदाधरीम् D द्विपञ्चाशत्संख्यकान् (५२) वादार्थोश्च
चकार इति ।
 
( २३ ) अथ भगीरथठकुरो मेघठकुरापरनामा मैथिल: पक्षधर-
मिश्राणां शिष्यः जयदेवपण्डितकवेर्विशाब्दे जातः । भगीरथठकुरस्य महा-
देवाख्यः थेघठक्कुरापरनामा सोदर आसीत् । भगीरथठक्कुरो वर्धमानो-
पाध्यायकृतानां प्रकाशप्रन्थानाम् ( किरणावलीप्रकाशादीनाम् ) व्याख्यान-
रूपान् द्रव्यप्रकाशिका-गुणप्रकाशिकादिनाम्नो ग्रन्थान् ( कुसुमाञ्जलिप्रका-
शप्रकाशिकान्यायलीलावतीप्रकाशप्रकाशिकादीन्) चकार इति ।
 
20
 
( २४ ) रुचिदैत्तः ( भाक्तुनामा ) पक्षधरमिश्राणां शिष्यः A तत्त्व-
चिन्तामणेर्व्याख्यानरूपं प्रकाशनामानं B कुसुमाञ्जलिप्रकाशस्य वर्धमान-
कृतस्य व्याख्यानरूपं मकरन्दनामानं च ग्रन्थं चकार इति ।
 
( २५ ) अथ–केशवमिश्रश्च न्यायसूत्रानुसारिणं तर्कभाषानामानं प्रन्यं
विरचितवान् इति ।
 
-
 
( २६ ) अथ
श्लोक ( १६१ )
 
- वरदराजश्च न्यायसूत्रानुसारिणं तार्किकरक्षानामानं
निबद्धं ग्रन्थं विरचितवान् इति ।
 
( २७ ) अथ – पद्मनाभ मिश्रस्तु बलभद्रमिश्रात्मजो विजयश्रीगर्भजो
( विश्वनाथगोवर्धन मिश्रबन्धु: ? ) A तत्वचिन्तामणेर्व्याख्यानरूपं चिन्ता-
मणिपरीक्षानामानं B राद्धान्तमुक्ताहारं (अस्य व्याख्यानं कणादरहस्यम् !)
C किरणावल्या द्वितीयं व्याख्यानं किरणावलीभास्करनामानं च मन्थं
चकार इति ।
 
( २८ ) अथ -म० म० जानकीनाथो भट्टाचार्यचूडामणिर्न्यायसिद्धा-
न्तमञ्जरीनामानं प्रन्थं चकार इति ।
 
( २९ ) रामभद्रो जानकीनाथभट्टाचार्यचूडामणेः पुत्रः न्यायसूत्रटीकां
न्यायरहस्यनामानं प्रन्थं चकार इति ।
 
( ३० ) अथ - विश्वनाथ न्यायपञ्चाननश्च विद्यानिवासभट्टाचार्यात्मजो
 
२१ केचित्तु रुचिदत-प्रगल्भ-रघुनाथानां द्वित्वेन विभिनत्वममन्यन्त ।