This page has not been fully proofread.

न्यायकोचः ।
 
२४७
 
क्रय:-
-मूल्यदानजन्यस्वत्वस्य जनकः स्वीकारः । स्वत्वजनकं मूल्यदानं
वा । यथा ग्रामं क्रीणातीत्यत्र धात्वर्थः । अत्र क्रयफले स्वरवे ग्रामस्या-
धेयत्वेनान्वयः । तेन ग्रामनिष्ठस्य मूल्यदानजन्यस्वत्वस्यानुकूलस्वीकारवान्
ग्रामनिष्ठं यत् स्वत्वम् तदनुकूलमूल्यदाता वा इति तत्र क्रमेण बोध:
( श० प्र० लो० ७२ पृ० ९६ ) । क्रयस्य स्वत्वहेतुत्वमुक्तं मनुना
सप्त वित्तागमा धर्म्या दायो लामः कयो जयः । प्रयोगः कर्मयोगश्च
सम्प्रतिग्रह एव च ॥ ( मनु० १० श्लो० ११५) इति । गौतमेना-
प्युक्तम् स्वामी रिक्थक्रय संविभागपरिग्रहाधिगमेषु इति । क्रयादिरूपा-
गमसहितभोगस्यैव स्वत्वे प्रामाण्यम् ( वीरमित्रो० ) । भत्रेदं बोध्यम् ।
वैदिककर्माङ्गपरिक्रयादौ प्रायेण यजमानस्यैवाधिकारोस्ति इत्याह जैमिनिः
( जैमि० सू० ३१८ । १ ) । अथवा क्रयो नाम मूल्यदान प्रयुक्तस्वसंबन्धि-
स्वत्वोत्पादकस्वीकारः । यथा गां क्रीणातीत्यादौ । अत्र गोवृत्तिमूल्यदान-
प्रयुक्तस्वस्वत्वानुकूलस्वीकारानुकूलकृतिमान् इत्यन्वयबोधः इति संप्रदायः
( का० व्या० पृ० ५ ) । शाब्दिकाः मूल्यदानपूर्वकस्वीकार इत्याहुः
( ल० म० ) । केचित्तु पणपूरणादिमूल्यदानेन विक्रेतुः स्वत्वापनयनेन
स्वत्वोत्पादनव्यापारः क्रय इत्याहु: ( वाच ० )।
 

 
-
 
क्राथनम् – असुप्तस्यैव सुप्त लिङ्गदर्शनम् ( सर्व० सं० पृ० १७०
नकुळी० ) ।
 
क्रिया – १
 
धात्वर्थः । स च धातूपनीत फलानुकूलसजातीयविजातीय-
व्यापारप्रचयः ( त० प्र० ख० ४५० ५० ) । यथा चैत्रस्तण्डुलं
पचतीत्यादौ पचनादिक्रिया ( ल० म० ) । इयं च क्रिया मतभेदेन
फलविशिष्टव्यापाररूपा फलव्यापारोभयरूपा वा इत्यन्यदेतत् । क्रिया
च भावना उत्पादयितुर्व्यापाररूपा साध्यत्वेनाभिघीयमाना इति
( वाच० ) । तथा चोक्तं हरिणा व्यापारो भावना सैवोत्पादना सैव च
क्रिया ( वाक्यप० ) इति । साध्यत्वसाधनत्वएतदन्यतररूपेण प्रतीय-