2023-02-20 00:54:49 by ambuda-bot
This page has not been fully proofread.
२४६
न्यायकोचः ।
पक्त्वा भुज्यत इत्यादिभावार्थक क्त्वाप्रत्ययस्थले पाकक्रियाविशिष्टा भुजि-
क्रिया ( कृष्ण० )।
क्यच् – ( धात्वंश: प्रत्ययः ) इच्छा । यथा चैत्रः पुत्रीयतीत्यादौ पुत्रीयति
माणवकमित्यादौ च । एवम् श्येनायते काक इत्यादौ क्यङर्थोपि बोभ्यः ।
अयं च प्रत्ययो नामप्रकृतिको बोध्यः । अत्र क्यजर्थेच्छायां तत्प्रकृत्यर्थ-
ताबच्छेदकीभूतपुत्रत्वाद्यवच्छिन्नविषयतया प्रकृत्यर्थस्य पुत्रादेरन्वयः ।
तस्याश्च तिर्थे आश्रयत्वे निरूपकत्वेनान्वयः । तथा च पुत्रत्वेन पुत्र-
गोचरेच्छाया आश्रयत्ववांश्चैत्रः इत्येवमन्वयघीः ( श० प्र० लो० १०७
पृ० १६५ ) । अत्र क्यजन्तस्याकर्मकत्वमेव विज्ञेयम् ( ग० व्यु०
का० २ ख० २ पृ० ६५ ) । पुत्रीयति माणवकमित्यत्र च आचारसदृ-
शाचार: क्यजर्थः । तत्र विशेषणीभूत आचारे कर्मत्वेन प्रकृत्यर्थस्यान्वयः ।
विशेष्यीभूते च माणवकादेः कर्मत्वेनान्वयः । तेन पुत्रकर्मकाचरण-
सदृशं यन्माणवककर्मकाचरणं तदनुकूलकृतिमान् इत्याकारकस्तत्र बोधः
( श० प्र० लो० १०७ पृ० १६५ ) । पुत्रकर्मकाचरणं चेह अन्न-
पानादिना संवर्धनतोषणादि ज्ञेयम् । अत्रार्थे क्यजन्तस्य सकर्मकत्वं
बोध्यम् ( ग० व्यु० का० २ ख० २ पृ० ६५ ) । अधिकं तु
द्वितीयाशब्दव्याख्यानावसरे संपादयिष्यते । श्येनायते काक इत्यत्रापि
आचारसदृशाचार: क्यर्थः । तत्र च प्रकृत्यर्थस्य श्येनादेः कर्तृत्वेनैव
अन्वयः । श्येनकर्तृकाचारसदृशाचारवान्काकः इत्येवं तत्र बोधः ।
अत्र श्येनकर्तृकाचारश्च मांसहरणादिर्ग्राह्य ( श० प्र० श्लो० १०७
पृ० १६६ ) ।
;
क्रमः – १ उद्दिष्टानामर्थव शाद्यथावग्रहणम् । यथा द्रव्यनिरूपणानन्तरं
क्रमेण गुणादिकं निरूप्यते इत्यादौ । २ अर्थानां नैयत्येन पूर्वापरावस्था-
नम् । यथा उद्देशक्रमेण द्रव्यादिनिरूपणम् इत्यादौ । ३ परिपाव्यां
यथोचितसंनिवेशः ( वाच० ) । यथा शेषशेषिभावे अधिकृताधिकारे
वा सत्येव वैदिककर्मणोनुष्ठाने पौर्वापर्यरूपक्रमग्रहणम् इत्यादौ ।
अत्र मीमांसकमते कर्मक्रमनियामकानि प्रमाणानि श्रुत्यर्थपाठस्थानमुख्य-
प्रवृत्त्याख्यानि षड्डिधानि ज्ञेयानि ( मीमांसान्यायप्रकाश पृ० ७३ ) ।