This page has not been fully proofread.

न्यायकोशः ।
 
कौमुदी - आश्विन्यां पौर्णमास्यां च अक्षैर्जागरणं निशि । कौमुदी सा समा-
ख्याता कार्या लोकविभूतये ॥ ( पु० चि० पृ० ३०२ ) ।
 
क्त्वा – ( प्रत्ययः ) पूर्वकालीनत्वम् कर्ता च ( तर्का० ४ पृ० ११) ।
यथा भुक्त्वा व्रजतीत्यादौ भोजने व्रजनपूर्वकालीनत्वं क्त्वाप्रत्ययार्थः
( त० प्र० ४ पृ० ७०-७२) । अत्र पूर्वत्वं च संनिहितक्रिया-
पेक्षया बोध्यम् । कियापूर्वकालीनत्वं च कियाप्रागभावकाळवृत्तित्वम्
क्रियोत्पत्तिकालीनध्वंसप्रतियोगि कालवृत्तित्वं वा । तेन भुक्त्वा व्रज-
तीत्यत्र गमनप्रागभावावच्छिन्नकालवृत्तिभोजनकर्त्रमिन्नो व्रजति इत्यर्थः ।
अत्र कालस्तात्पर्यवशात् व्यवहिताव्यवहितसाधारणो बोद्धव्यः । तेन
पूर्वस्मिन्नग्दे गत्वास्मिन्नन्दे समागतः इत्यत्र तादृशप्रयोगावगमः
( तर्का० ४ पृ० ११) । केचित्तु अव्यवहितपूर्वकालीनत्वमित्याहुः ।
अत्र अव्यवधानं च क्रियान्तरानुकूलविलम्बाभाववत्त्वम् । केचित्तु तदु-
त्पत्तिक्षणोत्पत्तिकध्वंसप्रतियोगि कालत्वमेव
तदव्यवहितपूर्वकाळत्वम् ।
 
कालश्चात्र यावता कालेन भोजनानन्तरं ब्रजनं तावान् स्थूलकालोपाधि-
विशिष्य निवेशनीयः । तेन नासंभवः इत्याहुः ( त० प्र० ख० ४
पृ० ७० ) । प्राभाकरास्तु समानकर्तृकत्वमेव क्त्वाप्रत्ययार्थ इत्याहुः ।
मणिकृतस्त आनन्तर्यमेव तदर्थ इत्याहुः । अन्ये तु कचित् सामाना-
धिकरण्यविशिष्ट व्याप्यत्वमपि क्त्वार्थ इत्याहुः । अधीत्य तिष्ठतीत्यत्र
निरन्तराध्ययनशालिन्येव तथा प्रयोगात् अयमर्थ आवश्यकः । अत्र
व्याप्तिव कालिकी। तथा च अध्ययनसामानाधिकरण्यविशिष्टाध्ययन-
व्याप्यस्थितिमान् इत्यन्वयधीः ( त० प्र० ख० ४ पृ० ७२ ) । अपरे
तु आश्रय एव क्त्वाप्रत्ययार्थ इत्याहुः । अयं भावः । क्त्वा प्रत्ययस्य
कृत्प्रत्ययान्तर्गतत्वात् सामान्यशक्तया आश्रयोपस्थितेः कृत्प्रत्ययेन संभवात्
मुखं व्यादाय स्वपिति इत्यादौ स्वापपूर्वकालीनत्वस्य मुखष्यादाने अस
वेपि व्यादानाश्रये स्वापाश्रयत्वस्य विशिष्ठे वैशिष्टयम् इति न्यायेनैव
बोध: ( त० प्र० ख० ४ पृ० ७२ ) । अन्ये त्याहुः । स्वकर्तृकत्वस्वो-
त्तरत्व एतद्रुभय़संबन्धेन यत्किचिद्विशिष्टं क्त्वा प्रत्ययार्थः । यथा ओदनं