This page has not been fully proofread.

न्यायकोहः ।
 
कोपः – १ उत्कटद्वेषः । यथा चैत्राय कुप्यति क्रुष्यतीत्यादौ धात्वर्थः ।
अत्र धात्वर्थद्वेषे विषयत्वलक्षणं संप्रदानत्वं चतुर्थ्या बोध्यते । तेन
चैत्रविषयकोत्कटद्वेषवान् इत्याकारकस्तत्र बोध: ( श० प्र० को० ६९
पृ० ८७ ) । चैत्राय कुप्यतीत्यादौ क्रुधदुहेर्ष्यासूयार्थानां यं प्रति कोपः
( पा० ११४ । ३७ ) इति सूत्रेण संप्रदानसंज्ञा बोध्या । यथा वा क्रुध्यन्
कुलं पश्यति विप्रवह्निः (भट्टिः ) इत्यादौ धात्वर्थः । शाब्दिकास्तु प्ररूढो
वाक्चक्षुरादिविकारानुमेयश्चित्तवृत्तिविशेष इत्याहुः ( ल०म० ) । यथा
इति क्रुधाक्रुश्यत तेन केतकम् (नैष० ) इत्यादौ । कामव्याघातहेतु-
कश्चित्तवृत्तिविशेष इति कामशास्त्रज्ञाः । वधाद्यनुकूलश्चित्तवृत्तिविशेषः ।
यथा अपकारिणि चेत्कोपः कोपे कोपः कथं न हि । धर्मार्थकाममोक्षाणां
प्रसह्य परिपन्थिनि ॥ इत्यादौ इति नीतिशास्त्रज्ञाः ( नीतिसा० ) ।
कामानवाप्तिजन्यश्चित्तवृत्तिविशेषः । यथा रिपौ बन्धौ स्वदेद्दे च समै-
कात्म्यं प्रपश्यतः । विवेकिनः कुतः कोपः स्वदेहावयवेष्विव ॥ इत्यादौ
इति वेदान्तिनः । २ धातुवैषम्यकारिदोषाणां विकारविशेषः । यथा तत्र
एते स्वभावत एव दोषाणां संचयप्रकोपशमप्रतीकार हेतवः ( सुश्रुते )
इत्यादौ इति भिषजः । ३ शृङ्गाराङ्गं मानः कोपः । यथा कोपात्कान्तं
परित्यज्य पश्चात्तापसमन्विता ( प्रतापरु० ) इत्यादी इत्यालंकारिका
आइः ( वाच० ) । अत्रोच्यते मानः कोपः स तु द्वेषा प्रणयेर्ष्या-
समुद्भवः । द्वयोः प्रणयमानः स्यात् प्रमोदे सुमहत्यपि ॥ प्रेम्णः कुटिल-
गामित्वात् कोपो यः कारणं विना ( सा० ८० ) इति ।
 
-
 
P
 
कोमलत्वम् – १ स्पर्शविशेषः । यथा निशा च शय्या च शशाङ्ककोमला
(नैषध० ) इत्यादौ । २ अवयवसंयोगविशेषः ( सि० च० ) । यथा
काठिन्यकोमलत्वादिनानावयवसंयोग विशेषयुक्ता पृथिवी ( त० मा०
पृ० २७) इत्यादौ । एवम् मृदुत्वादिकं व्याख्येयम् ।
 
कौमारिकी आषाढे शुकृषष्ठी तु तिथि: कौमारिकी स्मृता ( पु० चि०
पृ० ९६) ।