This page has not been fully proofread.

२४२
 
न्यायकोशः ।
 
केवलान्वयि - १ (लिङ्गम् अनुमानं वा ) [ क ] अत्यन्ताभावाप्रतियोगि
साध्यकम् ( दीधि ० २ पृ० १५६ ) ( न्या० बो० २ १० १५ ) ।
यथा न तावदव्यभिचरितत्वम् । तद्धि न साध्यवदन्यावृत्तित्वम् । केव
लान्वयिन्यभावात् ( चि० २ पृ० २) इसादौ । केवलान्वयि तु
चतुरूपोपपन्नमेव स्वसाध्यं साधयितुं क्षमते । चत्वारि रूपाणि च
पक्षधर्मत्वम् सपक्षे सत्त्वम् अबाधितविषयत्वम् असत्प्रतिपक्षत्वं
चेति (सि० च० ) । तत्र हि सर्वस्यैषाभिधेयत्वाद्विपक्षासत्त्वम्
( मु० गु० पृ० २१९) । तस्य विपक्षाभावेन विपक्षव्यावृत्त्यभावादिति
भाव: ( सि० च० २ पृ० २७) । अत्यन्ताभावाप्रतियोगिसाध्यक-
मित्येतद्धक्षणं च हेतोर्व्यतिरेकित्वेपि संगच्छते (न्या० बो० १० १५ ) ।
[ ख ] असद्विपक्षम् । तदर्थस्तु पक्षव्यापकम् सपक्षे वर्तमानम् विपक्ष -
शून्यम् अबाधितविषयम् असत्प्रतिपक्षम् इति ( ता० र० श्लो० १६) ।
यथा ज्ञेयमभिषेयत्वादित्यादौ (मु०० पृ० २१९) । अत्र केवला-
न्वयनोभिषेयत्वस्य न विपक्षः । अभिधानेनभिधाने च विपक्षत्वव्याघा-
तात् (चि० २ पृ० ४६) । [ग] अन्वयमात्र व्याप्तिकम् ( त० सं० ) ।
तदर्थश्च व्यतिरेकाप्रतियोगिसाध्यकम् ( वाक्य० २ पृ० १५ ) । यद्वा
व्यतिरेकव्याप्तिशून्यत्वे सत्यन्वयव्याप्तिमत् (न्या० बो० २ पृ० १५ ) ।
अत्र अन्वयेनैव व्याप्तिर्यस्मिंस्तत्तथा इति समासो द्रष्टव्यः । [घ ]
यत्रान्वयव्याप्तिरेवास्ति तत् ( त० कौ० २ पृ० ११ ) । यथा
घटोभिधेयः प्रमेयत्वादित्यत्र प्रमेयत्वं केवलान्वयि ( त० सं० ) ।
अत्र घटः पक्षः । तस्याभिधेयत्वं साभ्यम् । प्रमेयत्वं हेतुः । तस्मिन् हेतौ
यत्र यत्र प्रमेयत्वम् तत्र तत्राभिधेयत्वम् यथा पटः इत्यन्वयव्याप्तिरेवास्ति ।
न तु यत्र यत्र साध्याभावः तत्र तत्र हेत्वभावः इति व्यतिरेकव्याप्तिरस्ति ।
अभिवेयत्वस्य प्रमेयत्वस्य च सर्वत्र सत्त्वात् साध्याभावादेरेवाप्रसिद्धत्वात्
( त० कौ० २ पृ० ११ ) (मु० गु० पृ० २१९) । २ यो धर्मः
सर्वत्र वर्तते यस्य चात्यन्ताभावः अप्रसिद्धः सः धर्मः केवलान्वयी ।
लक्षणं च अत्यन्ताभावाप्रतियोगित्वम् ( चि० २ पृ० ४६ ) ( त० दी० )