2023-02-20 00:54:48 by ambuda-bot
This page has not been fully proofread.
२४०
न्यायकोशः ।
इत्यादौ । २ छिन्नत्वम् । यथा लृप्तकेशनस्खश्मश्रुर्दान्तः शुभाम्बरः
शुचि: ( मनु० ) इत्यादौ इति धर्मज्ञा आहुः । ३ रचितत्वम् । यथा
कृतेन सोपानपथेन मञ्चम् ( रघु० स० ६ ) इत्यादौ इति काव्यज्ञा
आहुः (वाच० ) ।
केवलत्वम् – १ इतरासहायत्वम् । यथा यथैव ताः पुरः केबलीरोषधीर-
श्नन्ति केवलीरपः पिबन्ति केवलमेव पयो दुहे ( शत० प्रा० १॥६॥
१७।१५ )। तदर्थश्च यथा पुरा अमावास्यातः पूर्वदिवसे ता गावः
केवलीञ्चन्द्रानुप्रवेशरहिता ओषधीरपश्चाहारं कृत्वा केवलं चन्द्ररहितमेव
पयो दुद्दे दुहते ( भा० ) ( बाच० ) इत्यादौ । २ अवधारणत्वम् ।
३ ज्ञानविशेषनिष्ठं वैजात्यम् । यथा जयन्ति ते जिना येषां केवलज्ञान-
शालिमाम् इत्यादौ ।
केवलम् – (ज्ञानम् ) तपः क्रियाविशेषान्यदर्थे सेवन्ते तपस्विनस्तज्ज्ञान-
मन्यज्ञानासंस्पृष्टं केवलम् ( सर्व० सं० पृ० ६४ आई० ) ।
केवलव्यतिरेकि – (लिङ्गम् अनुमानं षा ) [ क ] अगृहीतान्वयव्याप्ति-
कसाभ्यकम् ( दीधि ० २ पृ० १५६ ) । अत्र साध्याभाव साधनाभावयोः
साहचर्ये व्यतिरेकः । तथा च व्यतिरेकेणैव व्याप्तिर्यस्मिंस्तत् इति
समासो द्रष्टव्यः । केवलव्यतिरेकि तु चतूरूपोपपन्नं भवति । चत्वारि
रूपाणि च पक्षधर्मत्वम् विपक्षाड्यावृत्तिः अबाधितविषयत्वम् असत्प्रति-
पक्षत्वं चेति । अत्र सपक्षाभावेन सपक्षसत्वं नास्तीति चत्वारि रूपाण्ये-
वेति भावः (सि० च० २ पृ० २७ ) । तेन चतूरूपोपपन्नमेव
तत्स्वसाध्यं साधयितुं क्षमते ( वै० उ० ३।१।१७ ) । केवलव्यतिरे-
किणि प्रतिज्ञाहेतू तुल्यावेव । उदाहरणोपनयनिगमनानि तु मियन्ते ।
यथा जीवच्छरीरं सात्मकं प्राणादिमत्त्वात् इत्यत्र यत्सात्मकं न भवति
तत्प्राणादिमन्न भवति यथा घटः न चेदं जीवच्छरीरं प्राणादिमन भवति
तस्मान तथा इति ( त० कौ० २ १० १३ ) । [ख] असत्सपक्षम्
(मु० गु० पृ० २१९ ) ( न्या० म० २ पृ० १९) । असत्सपक्षत्वं
व पक्षातिरिक्त अनिश्चितसाध्यसाधनसहचारकत्वम् ( म्या० म० २
A