This page has not been fully proofread.

न्यायकोकः ।
 
२३९
 
कृञोर्थः इत्याहुः । अत एवास्य धातोः सकर्मकत्वमपि संगच्छते ।
तत्रोक्तम् व्यापारो भावना सैवोत्पादना सैव च क्रिया । लोकर्मकता-
पत्तेर्नहि यत्नोर्थ इष्यते ॥ किंतूत्पादनमेवातः कर्मवत् स्याद्यगाद्यपि ।
कर्मकर्तर्यन्यथा तु न भवेत् तद्दृशेरिव ॥ इति ( बै० सा० धात्वर्थ●
भर्तृ० को० ५/६ पृ० ५०-६१ ) ।
 
कृतिः - १ प्रयत्नवदस्यार्थो नुसंधेयः (त० सं० ) । २ प्रवृत्तिः ।
 
-
 
कृत्यपश्चकम् – पञ्चविधं तत्कृत्यं सृष्टिस्थितिसंहारतिरोभावः । तद्वदनुग्रह-
करणं प्रोक्तं सततोदितस्यास्य ॥ ( सर्व० सं० पृ० १८० शै० ) ।
कृदन्तम् – ( यौगिकं नाम ) यद्धात्वर्थान्वितस्वार्थान्वयबोधं प्रति यादृशानु-
पूर्व्यवच्छिन्नस्य यत्कृतो निश्चयः कारणम् तद्धातूत्तरगं तत् कृदेव तादृ-
शानुपूर्व्यवच्छिन्नं सत् कृदन्तं नाम । यथा पाचकपाठ्यमानेत्यादि ।
तद्धि धात्वर्थेनान्वितम्य स्वार्थकर्त्रादेः कर्मत्वादावन्वयबोधं प्रति द्वितीया-
घंशे तादृशानुपूर्वीकत्वेन निश्चीयमानं हेतुर्भवति इति लक्षणसमन्वयो
बोभ्यः ( श० प्र० लो० ५२ पृ० ६८) ।
 
-
 
कृपा – निरुपधिपरदुःखप्रहाणेच्छा । यथा मिथुने कृपावती ( कुमार० )
इत्यादौ ।
 
कृषिः– विहे जनम् । यथा भृतिभुजः कर्षन्ति हलैरित्यादौ धास्वर्थः ।
विलेखनं चात्र भूम्यवयवशैथिल्यानुकूलव्यापारः । कचित् प्रतिविधानम् ।
यथा पञ्चमिर्हः कर्षति गृहीत्यादौ धात्वर्थ: ( ग० व्यु० का० ३
पृ० ८१ ) । प्रतिविधानं चात्र भूम्यवयवशैथिल्यानुकूळव्यापारानुकूल-
व्यापारः । स च प्रेरणादिरूपः ।
 
कृष्णपक्षः कलाक्षयाधिकरणकाल: ( पु० चि० पृ० ३१ ) ।
कृष्णलम् – सुबर्णशकलम् ( जै० न्या० म० ८ पा० १ अधि० १८ ) ।
- १ नियतत्वम् अवधारणेन कल्पितत्वं था ( बाच० ) । यथा
अवश्य कप्तनियतपूर्ववर्तिन एव कार्यसंभवे तद्भिन्भमन्यथासिद्धम् (मु० १)
 
कृसत्वम्
 
S