This page has not been fully proofread.

२३८
 
न्यायकोय ।
 
( रघु० स० २) इत्यादौ ( गणरत० ) । अत्र सिंहकर्तृकं नन्दिनी-
कर्षणमलीकम् इति बोध: ( वाच० ) । ७ वार्ता । ८ अनुशयः ।
९ निश्चयः इत्यादि ( वाच० ) ।
 
-
 
कुतुपः – अहो मुहूर्ता विख्याता दश पञ्च च सर्वदा । तत्राष्टमो मुहूर्तो
यः स कालः कुतुपः स्मृतः ॥ (पु० चि० पृ० ३३९ ) ।
कुमारिका – कुमारिका द्विवर्षा ( कल्याणीशन्दे दृश्यम् ) ।
कुम्भः - विंशतिद्रोणकः कुम्भः ( मिताक्षरा अ० २१२७५ ) ।
कुम्भक:- अन्तः स्तम्भवृत्तिः ( सर्व० सं० पृ० ३७७ पातज० ) ।
कुर्वद्रूपत्वम्-यत्किंचित्कार्यजनकतावच्छेदकतया सिद्धो जातिविशेषः ।
यथा विज्ञानवादिमते अङ्कुरोपधायकक्षणिकबीजव्यक्तिमात्रवृत्तिर्बीजत्व-
व्याप्या जाति: ( दि० १ आत्म० पृ० १०१ ) ( राम० ) । अत्र
कुर्वत् फलोन्मुखं रूपं यस्य तस्य भावः इति विग्रहो द्रष्टव्यः (वाच० ) ।
अत्र नैयायिकाः क्षेत्रादावुप्तबीजव्यक्तिविशेषेणैवारोत्पत्तिः न तु
कुसूलस्थबीजव्यक्त्या । तथा च फलजननाय योग्ये धान्यादिबीजेतिशयः
( उपकार: ) सहकारिभिः धरणिसलिलसंयोगादिभिः आघीयत इत्यवश्यं
बाष्यम् । तेनैवाङ्गरादिनियमोपपत्तौ अलं कुर्व द्रूपत्वकल्पनेनेत्याहुः
( दि० १ आत्म० पृ० १०१ ) ( सर्व० पृ० २४ बौद्ध० ) ( वाच० ) ।
कुलम् – ज्ञातिसंबन्धिबन्धूनां समूहः ( मिता० अ० २ लो० ३०) ।
इसीदम् – उपचयार्थ प्रयुक्तं द्रव्यम् ( मिता० अ० २०४० ) ।
कृन्- (धातुः ) [ क ] यत्नः । यथा पाकं करोतीत्यादौ कथात्वर्यः
प्रयतः । आख्यातस्य यनवाचकत्वेष्यत्र लक्षणया आल्यातेन व्यापारो
बोष्यत इति ज्ञेयम् । अत्रेदं बोध्यम् । कञः फलावच्छिन्नव्यापासबोध-
कतया पाकस्य गौणकर्मत्वम् । तथ गौणकर्मत्वं अत्र साम्यतास्यकृति-
विषयत्वम् ( का० व्या० पृ० ६ ) [ ]] शाब्दिकास्तु कमोर्य
उत्पादनम् । तमोत्पत्तिरूपफलसहितं यज्ञादि । यथा घटं करोतीव्यादौ