This page has not been fully proofread.

२९
 
प्रम्यकपरितं नाम द्वितीय उपोद्धातः ।
( १६ ) मथुरानाथतर्कवागीश-महाचार्यश्च रामतर्कालंकारात्मजः बङ्ग-
देशीयो रघुनाथतार्किकशिरोमणेः शिष्यः आत्मतत्त्व विवेक-तत्त्वचिन्तामणि
प्रभृतिमूलग्रन्थानां रघुनाथाख्यखगुरुकृतानां च सर्वेषां ग्रन्थानां व्याख्या-
नम् ( गुणप्रकाश विवृतिरहस्यादि ) कृतवान् इति ।
 
(१७) रघुदेवन्यायालंकारः ( कणादापरनामा) मथुरानायस्य शिष्यो
बङ्गदेशीयः । स च दीधितेरवयवप्रन्थस्य च व्याख्यां रघुनाथशिरोमणिकृत-
पदार्थतत्त्वनिरूपणस्य टीकां ( पदार्थतत्वविवेचनटीकाम्) ईश्वरवादम्
आकाङ्क्षावादं भाषारलं च कृतवान् इति ।
 
( १८ ) म० म० शंकर मिश्रश्च रघुदेवशिष्यो भवनाथात्मजः A कणा-
दरहस्यैनामानं B वैशेषिकसूत्रोपस्कारं C न्यायलीलावतीदीधितेर्व्याख्यानं
न्यायलीलावतीकण्ठाभरणं D बौद्धाधिकारस्य ( आत्मतत्त्वविवेकस्य ) व्या-
ख्यानं कल्पलतानामानं च ग्रन्थं रचयामास इति ।
 
( १९ ) प्रगल्भैश्च खण्डनोद्धौराख्यप्रन्थमकरोत् इति ।
 
( २० ) भवानन्दनामा महामहोपाध्याय-न्यायपञ्चानन-न्यायसिद्धान्त-
तर्कवागीश-भट्टाचार्यश्च A तस्त्वचिन्तामणेर्व्याख्यानं B दीधितेर्व्याख्यानं
C शब्दार्थमञ्जरीं, D कारकवादं च कृतवान्, इति ।
 
( २१ ) म० म० न्यायवाचस्पति - जगदीशतर्कालंकारभट्टाचार्यश्च भवा-
नन्दशिष्यः A प्रशस्तपादकृतभाष्यस्य व्याख्यानरूपं भाष्यसूक्तिनामानम्
B शब्दशक्तिप्रकाशिकाम् C तर्कामृतम् D दीवितेष्टीकां रहस्यनाजी
च चकार इति ।
 
( २२ ) म० म० गदाधरमिश्रो भट्टाचार्यचक्रवर्ती व जगदीशस्य रत-
कोशकृतो हरिरामतर्कालंकारभट्टाचार्यस्य च शिष्य: A तत्वचिन्तामणि-
१८ स च प्रन्यो भाष्यामिप्रायबोधको वार्तिकलक्षणाक्रान्तः इति ज्ञेयम् ।
 
१९ 'रघुनाथतार्किकशिरोमणिना दीधितिग्रन्थे पूर्वपक्षीयव्याप्तिवादे प्रगल्भकृतप्रन्य
उदाहृतः' इति 'कश्चन प्रगल्भो दीधितिकारात्पूर्वकालिक एव आसीत्' इति विज्ञायते ।
२० अस्यैकं पुस्तकं ( शाके १४३६ ) वर्षे लिखितं वाराणस्यामुपलभ्यते ।