This page has not been fully proofread.

न्यायकोचः ।
 
काव्यम् नायकादिप्रतिपादको बाक्यसंदर्भः । यथा वाल्मीकिविरचितं
रामायणं काव्यम् । आलंकारिकास्तु अदोषौ सगुणौ सालंकारौ शब्दार्थों
काव्यम् । दोषवर्जितं सगुणं सालंकारं शब्दविशिष्टार्थ अर्थविशिष्टशब्द
एतदन्यतरत् काव्यम् इति समुदितार्थः । तदुक्तम् । गुणालंकारसहितौ
शब्दार्थों दोषवर्जितौ । गद्यपद्योभयमयं काव्यं काव्यविदो विदुः ॥
इति ( प्रतापरु० पृ० १२ ) । तददोषौ शब्दार्थों सगुणावनलंकृती
पुनः कापि इति ( काव्यप्र० उ० १ को० ४) । पूर्वोक्तविशेषण-
विशिष्ट: शब्द एव काव्यं नार्थः काव्यमिति रसगङ्गाधरक्कदादय आडु: ।
काव्यसंपत्सामग्री तु शब्दार्थों मूर्तिराख्यातौ जीवितं व्यन्नववैभवम् ।
हारादिवदलंकारास्तत्र स्युरुपमादयः ॥ श्लेषादयो गुणास्तत्र शौर्यादय
इव स्थिताः । आत्मोत्कर्षावहास्तत्र स्वभाषा इव रीतयः ॥ शोभामाधुर्यकं
प्राप्ता वृत्तयो वृत्तयो यथा । पदानुगुप्यविश्रान्तिः शब्या शब्येव
संमता ॥ रसास्वादप्रभेदाः स्युः पाकाः पाका इव स्थिताः । प्रख्याता
लोकवदियं सामग्री काव्यसंपदः ॥ इति ( प्रतापरु० पृ० १२) ।
 
कासराक्षः –महिषाख्यो गुग्गुल: ( पु० चि० पू० ३०४ ) ।
 
-
 
किंच ~~ (अव्ययसमुदाय: ) १ आरम्भः । २ समुञ्चयः । ३ साकल्यम् ।
४ संभावना । ५ अवान्तरम् ( वाच० ) ।
 
-
 
किंचन (अव्ययसमुदाय: ) १ असाकल्यम् । २ अल्पम् ( वाच० ) ।
किंचित् – ( अव्ययसमुदायः ) १ असाकल्यम् । २ अल्पम् । यथा कम्पेन
किंचित् प्रतिगृह्य मूर्ध: ( रघु० ) भावर्जिता किंचिदिव स्तनाभ्याम्
( कुमार ० ) इत्यादौ ( वाच० ) ।
किंतु – ( अव्ययसमुदायः ) १
 
-
 
विरुद्धार्थ: । ३ किंपुनरर्थ: ( वाच० ) ।
 
0
 
किंतु - ( अव्ययसमुदाय ) १ प्रश्नः । २ वितर्कः । ३ सादृश्यम् ।
४ स्थानम् ( वाच० ) ।
 
पूर्ववाक्यसंकोचज्ञापनम् ।
 
२ प्रागुक्त-
किम् – १ [ क ] जिल्हासितम् (ग० शक्ति० १० १०४ ) ( दि० ४
पृ० १७९ ) ( म० प्र० ३।३४ ) । यथा कि सब नामधेयमित्यादौ ।