This page has not been fully proofread.

कर्क्स विधेयः इत्याक्तम् । गौडाच
(पा० सू० ११ १/७२ वार्ति० ) इत्युक्तेः
 
अप्रवृत्तेः कालान्तशब्दानास्य प्रवृत्तिः । तेन तदन्तशब्दात् ख एव
साधुः । समानकालीनः प्राक्कालीन इति भूरिप्रयोगात् इत्याहुः ।
वस्तुतस्तु तद्धिताः (४।११७६ ) इति पाणिनिसूत्रखबहुवचनेजानुक्त
स्थलेपि तद्धित प्रत्ययो बोष्यते । स चात्र खप्रत्ययः इति विज्ञेयम् ।
वैयाकरणमते तु भाष्यानुक्तत्वादप्रमाणमेतत् । अत एव अपभ्रंशा एवैते
इति प्रामाणिका इति सिद्धान्तकौमुद्यामुक्तम् ( कौ० ४/३/११)।
 
समासप्रत्ययविधौ प्रतिषेधो बसाव्यः
तदन्तविधिपरिभाषाया
 
-
 
कालोपाधिः - क्षणदिनादिव्यवहार विषयत्वनियामको धर्मः । स च जन्य-
मात्रं ( अनित्यमात्रं ) क्रियामात्रं वा कालोपाधिः । तथाहि खजन्यविभा
गप्रागभावावच्छिन्नं कर्म (१) पूर्वसंयोगावच्छिन्नविभागः (२) पूर्वसंयोग-
नाशावच्छिन्नोत्तर संयोगप्रागभावः (३) उत्तर संयोगावच्छिन्नं कर्म (४) च
इत्यादि (मु० १ पृ० ९२ )। स्वजन्येत्यस्यार्थश्च स्वम् रविक्रिया। तबन्यो
विभाग: रविपूर्वदेशयोर्विभागः । तस्य प्रागभावः । स तादृशक्रियोत्पत्ति-
काले तिष्ठति । तदवच्छिन्नम् तदेव कर्म इति ( सि० च० १ पृ० १०) ।
पूर्वसंयोगेत्यादेः स्वजन्य विभाग नाश्यपूर्वसंयोगविशिष्टः स्वजन्यविभाग
इत्यर्थः । पूर्वसंयोगनाशेत्यादेः स्वजन्यविभागजन्यपूर्वसंयोगनाशाबच्छिन्नः
खजन्योत्तरदंयोग प्रागभाष इत्यर्थः । उत्तरसंयोगेत्यादेः खनाशकोत्तर-
संयोग इत्यर्थः (दि० १ पृ० ९२ ) । अनेनोपाधिचतुष्टयेन क्षण-
चतुष्टय व्यवहार उपपद्यते । एवम् क्षणान्तरव्यवहारनियामकं कर्मान्तरादि
अयम् । महाप्रलये क्षणादिव्यवहारो यद्यस्ति तदा सोनायत्या ध्वंसेनैव
उपपादनीयः इति (मु० १ पृ० ९३ ) । स्ववृत्तिध्वंसप्रतियोगिप्रतियोगि
कयाबद्सविशिष्टसमयस्यैव तत्र क्षणव्यवहारविषयत्वमिति भावः ( दि०१
१० ९३ ) । अत्र प्रथमक्षणे क्रियोत्पद्यते । अनन्तरं क्रियातो विभागः ।
ततः पूर्वसंयोगनाशः । तत उत्तरदेशसंयोग उत्पद्यते । इति एकवारं
नेत्रनिमीलने नैयायिक प्रक्रिया ज्ञेया । एत एवं क्रियादयश्चत्वारः क्रमेण
चत्वार उपाधयो बोध्याः ।