This page has not been fully proofread.

२२४
 
न्यायकोषः ।
 
धात्वं संभवति । [ग] बाधितवदस्यार्थोनुसंधेयः । यथा काला-
व्यापदिष्टश्च हेत्वाभासाथ पञ्चषा ( भा० प० श्लो० ७२ ) इत्यादौ ।
कालिक विशेषणता – ( स्वरूपसंबन्धः ) कालिकसंबन्धबदस्यार्थोनुसंधेयः ।
कालिफसंबन्धः --कालेन कृतः संबन्ध: ( वाच० ) । यथा काळगन्धयोः
संबन्धः । अयं च संबन्धः सर्वाधारताप्रयोजकसंबन्ध इति जेगीयते ।
तथाहि अनेन संबन्धेन सर्वेषु जन्यभावेषु जन्यभावानां वृत्तिमत्वम् ।
नियेषु तु कालिकसंबन्धेन न कस्यापि सबम् । नित्यानुयोगिककालिक-
संबन्धस्यानुपगमात् । कालस्य च नित्यत्वेपि काळानुयोगिकस्तादृश-
संबन्धस्तु स्वीक्रियत इति नैयायिका मन्यन्ते । अत्र च काळातिरिक्ते
नित्ये कालिकायोगः इति नैयायिकानां सिद्धान्तो द्रष्टव्यः । कालिक-
संबन्धश्चायं स्वरूपादनतिरिक्त इत्यन्ये ( ग० सिद्धा० ) । महाकाल-
जन्यपदार्थयोः एककालवृत्तिमतोर्जन्यपदार्थयोश्चार्य संबन्धः । स
च कालिकविशेषणताख्यः सर्वाधारताप्रयोजकः । यथा कालस्य
गन्धादिसर्वेवस्त्वाधारताप्रयोजकः कालिकास्र्यः संबन्धः । एवं दिकृत-
विशेषणतापि बोभ्या ( त० दी० १ पृ० ७ ) । अत्रायं विवेकः ।
गगनादिकं सर्वदैवास्ति इत्यादिष्यवहारात्कालिक विशेषणताख्यसंबन्धेना-
काशपरमाण्वादयो नित्या अपि काले वर्तन्ते । दिग्विशेषणताख्यया
सर्वाधारतानियामिकया त जन्यमात्रं दिशि तिष्ठति इति ( राम० १।१
पृ० ५६ ) ।
 
काली -( कल्याणीशन्दे दृश्यम् ) ।
 
कालीनत्वम् – कालवृत्तित्वम् । यथा घटकालीन: पट इत्यादौ पटस्य
घटकालीनत्वम् । प्राक्कालीनोत्तरकालीनार्वाक्कालीनप्रभृतिप्रयोगेषु स्वप्रन्ययो
दृश्यते । स चानुक्तोप्यवगन्तव्यः । अन्यथा बहुतरलक्ष्यक्षतिप्रसङ्गः
यात् (गण० ) । अत्र च काळाट्ठञ् ( ४/३/११) इति पाणिनिसूत्रे
काळात इति योगं विभज्य पुष्मदस्मदोरिति सूत्रान्मण्डूकडल्या समनु-