2023-02-20 00:54:47 by ambuda-bot
This page has not been fully proofread.
निमित्तकारणं चेति ( सि० च० पृ० १० ) । किं च इदानीं घटः इति
प्रतीतेः संभवेन सूर्यक्रियाया घटादेव संबन्धोबश्यं स्वीकर्तव्यः । स च
स्व-(क्रिया-)-समवायि- (तपन - ) संयोगिसंयोग एव भवति । तद्ब्रटकतया
कालः सिष्यति इति ( दि० ११० ९१ ) ( प० मा० ) । सख्यिास्तु
काल आकाशेन्तर्भवतीति कालमतिरिक्तं न स्वीकुर्वन्ति ( सां० कौ० ) ।
दिक्कालौ नेश्वरादतिरिच्येते इतीश्वरात्मक एव कालः इति दीधितिकृदषु-
नाथतार्किकशिरोमणिरघुदेवरामभद्रादय आहुः । एतन्मते काळ ईश्वरा-
नातिरिक्तः । किंतु क्षणा एवेश्वरादतिरिक्ता इदानीम् इत्यादिव्यवहार-
विषयाश्चेति ज्ञेयम् ( वाच० ) । स च कालः एकः विभुः नित्यश्च
(वै० २१२/६ - ९) (७/११२५ ) ( त० सं० ) । काले पच गुणा
वर्तन्ते । एकत्वसंख्या परममहत्परिमाणम् पृथक्त्वम् संयोगः विभागश्चेति
( भा० प० लो ३३ ) ( त० मा० पृ० ३१ ) । अत्रेदमवधेयम् ।
कालस्त्वेकोपि उपाधिमेदात् अतीतानागतक्षणदिनवर्षा दिव्यवहारविषयः
(मु० १ पृ० ९१) । काल एकोपि उपाधिभेदात्रिविधः । अतीतः
अनागतः वर्तमानश्चेति ( त० कौ० ११० ३ ) । तत्र मूतभविष्यस्काला-
वपि प्रत्येकमद्यतनानधतनमेदेन द्विविधौ इत्यादि ग्रन्थान्तरे द्रष्टव्यम् ।
कालोपाधिस्तु कालोपाधिशब्दव्याख्यानावसरे संग्रहीष्यते । कलनात्सर्व
मूतानां स काल: परिकीर्तितः ( वि० ६० पु० चि० पृ० १ ) ।
कालः सर्वकार्याणां चोत्पत्तिस्थितिविनाशहेतुः । तद्यपदेशात् । क्षणलव-
निमेषकाष्ठाकलामुहूर्तयामअहोरात्र अर्धमासमासऋतुअयनसंवत्सरयुगकल्प-
मन्वन्तर प्रलयमहाप्रलयव्यवहारहेतुश्च । काललिङ्गाविशेषादेकत्वं सिद्धम् ।
कारणे काल: (बै० ७/१/२५) इति वचनात्परममहत्परिमाणम् ।
कारणपरत्वात् (७।२।२२ ) इति वचनात्संयोगः । तद्विनाशाद्विभागः
( प्रशस्त० पृ० ७-८)। सोयं क्षणलवादिः कालः कालिकवृत्तेर
व्याप्यवृत्तिताया नियामकः जन्यमात्रे साधारणनिमित्तकारणं च । तत्र
प्रमाणम् । पौरुषं दैवसंपत्या काले फलति पार्थिव । यत्र एतन्मनुष्यस्य
पिण्डितं स्यात्कलावहम् ॥ इति । कर्वृष्टिसमायोगे दृश्यन्ते फलसिद्धयः ।