This page has not been fully proofread.

न्यायकोशः ।
 
२३१
 
त्मकत्वेन तस्याकाशे समवायसंबन्धेन सत्त्वेपि नाकाशेतिव्याप्तिः ( सि०
प्च० १ पृ० १० ) । [घ ] सूर्यक्रियोपाधिवशादतीतानागतबर्तमानादि-
व्यवहारभाक् काल: ( प्र० प्र० ) । [ ङ ] शाब्दिकास्तु शब्दतन्मात्र-
परिणाम: काल इत्याहु: (ल० म० लका० प० २० ) । [ च]
येन मूर्तीनामुपचयाश्चापचयाश्च लक्ष्यन्ते तं काउमित्याहुः । तस्यैव
कयाचित्क्रियया युक्तस्याहरिति रात्रिरिति च भवति । कया क्रियया
आदित्यगत्या । तयैवासकृदावृत्तया मास इति संवत्सर इति च भवति
इति ( पात० म० मा० २/२/५ ) । काललक्षणं तु कालिकसंब-
न्धावच्छिन्न कार्यत्वावच्छिन्नकार्यतानिरूपितमधिकरणविधया निमित्तत्वम्
( दि० ११२ पृ० ८९ ) । कालिकसंबन्धावच्छिन्नाधिकरणत्वमेव
कालत्वम् इति निष्कृष्टार्थ: ( राम० १ काल० पृ० ८९) । अथवा
विभुत्वे सति कालिकपरत्वापरस्वासमवायिकारणसंयोगाश्रयत्वाद्युपाधिरूपं
कालत्वम् (१० मा० ) । यद्वा अतीतादिव्यवहार जनकतावच्छेदकमुख्य-
विशेष्यत्वम् ( वाक्य ० १ १०५ ) । कालसत्त्वे प्रमाणं चानुमानम् ।
तथ परत्वापरत्वे सासमवायिकारणके भावकार्यत्वाइटवत् इति । अयं
* भावः । ज्येष्ठे परत्वप्रत्ययः कनिष्ठे अपरत्वप्रत्ययः । स च परत्वापरत्वगुण-
विशेषाचीनः । परत्वापरत्वे च सासमवायिकारणके भावकार्यत्वात् ।
असमवादिकारणं च तयोः कालपिण्डसंयोग एव । तदाश्रयः काल इति
( दि० १ पृ० ९१ ) । तथा च ज्येष्ठत्वकनिष्ठत्वज्ञानाघीनपरत्वापरत्वा-
नुमेयः कालः सिद्ध: ( त० कौ० पृ० ३ ) । अत्र सूत्रम् अपरस्मिक-
परं युगपश्चिरं क्षिप्रमिति काललिङ्गानि (बै० २ ।२।६ ) इति । अयमर्थः ।
इतिशब्दः प्रकारार्थः प्रत्येकममिसंबध्यते । अपरं चिरमित्यादयः प्रत्ययाः
काललिङ्गानीति / बहुतरदिवाकरक्रियाविशिष्टशरीरज्ञानात् कालिक-
परत्वोत्पत्तिरिति सिद्धान्तः । तज्ज्ञानं विशेषणविशेष्योभयसंबन्धघटक-
सापेक्षं साक्षात्संबन्धाभावे सति विशिष्टज्ञानत्वात् लोहितः स्फटिकः इति
ज्ञानवत् इत्यनुमानेन तादृशसंबन्धघटकविषया काल: सिध्यति । तादृश-
संबन्धन्ध स्वसमवायिसंयुक्तसंयोगः । स च काल: जगदाधारः कार्यमात्रे