2023-02-20 00:54:46 by ambuda-bot
This page has not been fully proofread.
न्यायकोच ।
प्राभाकरमते शक्ति प्रहप्रकारस्त्वित्थम् । प्रयोजकवृद्धेन घटमानय इत्युक्तम् ।
तच्छ्रुत्वा प्रयोज्यवृद्धेन घट आनीतः । तदवधार्य पार्श्वस्थो बालः घटा-
नयनरूपं कार्ये घटमानयेति शब्दप्रयोज्यम् इत्यवधारयति । ततश्च घटं
नय गामानय इत्यावापोद्वापाभ्यां घटादिपदान कार्यान्वितघटादौ शक्तिं
गृह्णाति इति ( मुक्ता० ४ पृ० १७६ ) ( चि० ४ ) । अत्र नैयायि-
कास्तु चैत्र पुत्रस्ते जातः कन्या ते गर्भिणी इत्यादी सिद्धार्थ-
विषयकस्यापि शाब्दबोधस्योत्पत्तेर्न कार्यान्विते शक्तिः । अत एव
यन्त्र दुःखेन संभिन्नं न च प्रस्तमनन्तरम् । अभिलाषोपपन्नं च तत्
सुखं स्वःपदास्पदम् ॥ इत्यर्थवादोपस्थिते सुखे वेदादेव स्वर्गपदस्य
शक्तिग्रहः इति ( चि० ४ ) । अन्वयस्य वाक्यार्थतया भानसंभवाद-
न्वयांशेपि शक्तिर्न कल्पनीया इति प्रादुः ( त० दी० ४ पृ० ३२ ) ।
अत्रायं निष्कर्षः । पदार्थसंसर्गस्य पदसमभिन्याहारबलादेव शाब्दबोचे
भानसंभवात् तादृशसंसर्गाशेपि शक्तिर्न कल्पनीया इति ( नील० ४
पृ० ३२ ) ।
२३०
कार्यैक्यम् – ( संगतिः ) एककार्यानुकूलत्वम् ( राम० २ पृ० १३४) ।
यथा अनुमितिलक्षणैककार्यानुकूलत्वसंगत्या पक्षधर्मतां निरूपयितुमाह
( दीधि० २ पृ० १२३) इत्यादौ व्यातिपक्षधर्मत योरनुमितिलक्षण-
कार्येक्यं संगतिः । इदं च एककार्यत्वमित्यप्युच्यते ।
काल: – १ ( द्रब्यम् ) [ क ] विभुत्वे सति दिगसमवेतपरत्यासमवायिका-
रणाधिकरणम् ( सर्व० सं० पृ० २१९ औ० ) । तदर्थव दिश्यसमवेतं
यत् परत्वस्यासमवायिकारणम् काळपिण्डसंयोगः तस्याधिकरणम्
इति । दिशि अतिव्याप्तिवारणायदिगसमवेतेति । [ ख ] परापरव्यतिकर-
यौगपचायौगपद्यचिरक्षिप्रप्रत्ययकारणं द्रव्यम् ( बै० उ० ७११/२५ )
( मा० प० लो० ४७ ) । [ ग ] अतीतादिव्यवहारहेतुः
( त० सं० ) । तदर्थव भतीतः भविष्यद् बर्तमानः इति प्रतीति-
प्रयोजकः व्यवहारस्तस्यासाधारणनिमित्चहेतुः । तेन व्यवहारल शब्दा-