This page has not been fully proofread.

न्यायकोचः ।
 
poglej
 
कार्यम् – १ [ क ] प्रागमावप्रतियोगि (त० सं० ) । यथा घटपटादि
सर्वम् प्रागभावमिन्नम् अनित्यजातं कार्ये भवति । अत्रायमाशयः । घटो-
त्पत्तेः पूर्व इह घटो भविष्यति इति या प्रतीतिर्जायते तत्प्रतीतिविषयीभूतो।
यः अमावः स एव घटप्रागभाषः तत्प्रतियोगि घटादिरूपं कार्यम्
इति ( म्या० बो० १ पृ० ८ ) । [ ख ] कारणपश्चाद्भावि । तच्च
छलणुकत्र्यणुकादिमेदेनानन्तविधं भवति ( त० कौ० १ पृ० ३ ) ।
कार्यद्रव्यस्योत्पत्तिविनाशयोः क्रमस्तु सृष्टिशन्दप्रलयशब्दव्याख्यानाबसरे
संपादयिष्यते । अन्न कार्योत्पत्तिप्रकारो मतमेदेन प्रसरति । असतः
सज्जायत इति सौगताः संगिरन्ते । सतोसज्जायत इति नैयायिकादयः ।
सतो विवर्ते ( अधिष्ठानज्ञानेन निवर्त्यम् ) कार्यजातम् न वस्तुसदिति
मायावादिनो वेदान्तिनः । सतः सज्जायत इति सांख्याः ( सर्व० सं०
पृ० ३२१ सांख्य० ) । तस्यायमाशयः । अत्र कल्पचतुष्टयं भवति ।
असतः सत् असतोसत् सतः सत् सतोसत् इति । तत्र द्वितीयकल्पो
नैव संभवति । तृतीयकल्पे पक्षद्वयं संभवति । सतः सकाशाद्ध्याय-
हारिकं सत् सतः सकाशात्पारमार्थिकं सदिति । तत्रायः पक्षो माया-
वादिनां वेदान्तिनाम् । अन्त्यस्तु सांख्यानाम् । तत्र असतः सदिति
वादिनां सौगतानामयमाशयः । असतः कारणात्सत्कार्य जायत इति ।
सौगता बौद्धाः । उत्पत्तेः पूर्वमविद्यमानं कार्य सतः कारणाजायत इति
नैयायिकानामाशयः । मायावादिनां वेदान्तिनां सांख्यानां चामिप्राय उक्त
एव । विस्तरस्तु सवदर्शनसंग्रहटीकायां ( पृ० ३२१ ) द्रष्टव्यः ।
२ यागादिकतिसाभ्यमपूर्व कार्यमिति प्रामाकराः । ३ आदिश्यमानो
वर्णादिः कार्यमिति शाब्दिकाः । ४ आरोग्यं कार्यमिति मिषजः ।
५ जन्मलग्नावधि दशमस्थानं कार्यमिति ज्योतिषज्ञाः । ६ उद्देश्यं कार्य-
मिति व्यवहारज्ञाः । ७ प्रयोजनमिति काव्यका वदन्ति ( वाच० ) ।
कार्यसमः – ( जाति: ) [ क ] प्रयत्नकार्यानेकत्वात्कार्यसमः ( गौ ५॥१॥
३७) । प्रयत्नानन्तरीयकत्वादनित्यः शब्द इति । यस्य प्रयत्नानन्तर-
१ अत्र ऋषिद् कारणसमेति पाठः । तस्याप्ययमेवार्थ: ( नील● पृ० ४५ ) ।
 
-