This page has not been fully proofread.

अन्यकपरितं नाम द्वितीय उपोद्धातः ।
 
डन्तर्गते 'करिजन' ग्रामे जातः उदयनाचार्यकृतायाः किरणावल्या
व्याख्यानरूपं किरणाबलीप्रकाशनामानं ग्रन्थं न्यायलीलावल्या व्याख्यानरूपं
न्यायलीलावतीप्रकाशनामानं ग्रन्थं उदयनकृतन्यायपरिशिष्टस्य प्रकाशं गौ-
तमसूत्रस्य तत्त्वचिन्तामण्यादीनां व्याख्यानं च कृतवान् इति ।
 
( . १३ ) महामहोपाध्याय-न्यायपञ्चानन-वासुदेव भट्टाचार्यसार्वभौमश्च त
स्वचिन्तामणेर्व्याख्यानं कृतवान् । वासुदेवसार्वभौमस्य चत्वारः शिष्या आ-
सन् — गौराङ्गदेवः रघुनाथ: रघुनन्दनः कृष्णानन्दश्चेति । तत्र ( १)
गौरामस्तु 'भगवतो विष्णोरवतारः ( शचीनन्दनः ) ' इति केचिदाडुः ।
अन्ये तु - 'विरक्तो भगवद्भक्तः' इत्याहुः । (२) रघुनाथतार्किक शिरो-
मणिश्च दीधितिकारो नैयायिकः । ( ३ ) रघुनन्दनभट्टाचार्यश्च धर्मशास्त्री ।
( ४ ) कृष्णानन्दवागीशच मन्त्रशास्त्री जातः इति । एते च चत्वारस्तत्त-
च्छास्त्रेषु निबन्धांश्चक्रुः इति किंवदन्ती ।
 
( १४ ) जयदेवमिश्र ( पक्षधरमिश्र ) हरिमिश्रशिष्यो वासुदेवसार्व-
भौमस्य सहाध्यायी तत्त्वचिन्तामणेर्व्याख्यानमालोकनामानं ग्रन्थं चकार इति ।
 
( १५ ) रघुनाथभट्टाचार्यतार्किकशिरोमणिश्च वासुदेव सार्वभौमशिष्यो
वनदेशे नवद्वीपग्रामे नद्याशान्तिपुरे ( भाषया 'नडिया' इति प्रसिद्धे )
जातः । स च ( रघुनाथतार्किकशिरोमणिः ) A तत्त्वचिन्तामणेर्व्याख्यानं
दीधितिनामानं B बौद्धाधिकारापरपर्यायस्यात्मतत्त्वविवेकस्य व्याख्यानं दीषि-
तिनामानं C किरणावल्या न्यायलीलावल्याश्च प्रकाशस्य ( वर्धमानकृतस्य )
व्याख्यानं द्रव्यप्रकाशविवृतिं गुणप्रकाश विवृतिं ( विषमपदटिप्पनीं ) दीषि-
'तिनामानं D पदार्थतत्त्वनिरूपणं नाम ( पदार्थखण्डनम् ) E आख्या-
तवादं ( आख्यातविवेकम् ) च प्रन्यं चकार इति ।
 
E
 
१५ गौराङ्गो नाम राजाऽस्ति । स च शालिवाहनशके (१४०७) वर्षे आविरासीत् ।
 
१६ मनुस्मृति व्याख्यानकर्ता च राघवानन्दः अयं तु रघुनन्दनः इति तयोर्भेदः ।
 
१७ अत्रैतिह्यम् – 'सार्वभौमे चाध्ययननिवृत्त्या स्वदेशं गते तच्छिष्ये रघुनाथ शिरोम-
गावपि पक्षघरमिश्राचाष्येतुं समायाते कदाचित् सामान्यलक्षणायाः प्रत्यासत्त्याः खण्डने
च कृते सति पक्षधरमिश्रः शिष्यत्वमापन्नं रघुनाथं प्रति प्रोवाच --"वक्षोजपानकृत्काण
संशये जाप्रति स्फुटे। सामान्यलक्षणा कस्मादकस्मादपलप्यते" इति
 
+
 
1