2023-02-20 00:54:46 by ambuda-bot
This page has not been fully proofread.
न्यायकोचा ।
२ उद्देश्यम् । बथा तस्यागमन कारणम् इत्यादौ कारणमुद्देश्यम् ।
प्रयोजनं फलं वेख्यर्थः । फलस्य कारणत्वं चेच्छाद्वारा । उपायेच्छां प्रति
फलेच्छाया: कारणत्वात् । सर्वो हि लोकः फलमिच्छन्नेव तदुपाये प्रवर्त-
मानो दृश्यते इति तस्य तथात्वं बोभ्यम् (बाच० ) । ३ समस्तसृष्टि-
संहारानुग्रहकारि कारणम् ( सर्व० सं० पृ० १६८ नकुली० ) ।
कारुण्यम् - १ स्वार्थमनपेक्ष्य परदुःखप्रहाणेच्छा । यथा परमेश्वरस्य जग-
निर्माण करुणया प्रवृत्तिः ( सर्व० सं० पृ० २२५ अक्ष० ) ।२ करु-
णाविषयत्वम् । यथा दयासमुद्रे स तदाशयेतिथीचकार कारुण्यरसापगा
गिरः (नैष० ) इत्यादौ (वाच० ) ।
कार्पण्यम् – ( दोषः ) उचितव्ययाकरणेनापि धनरक्षणेच्छा ( गौ० वृ०
४ । १ । ३ ) । यथा कृपणो धनाढ्य इत्यादौ । कार्पण्यमपि तृष्णाप्रमेद
एव ( गौ० दृ० ४ । १ । ३ ) ।
कार्मिकम् –कर्मणा चित्रेण निर्मितम् । यत्र निष्पन्ने पटे चक्रस्वस्तिकादिकं
चित्रं सूत्रैः क्रियते तत्कार्मिकमित्युष्यते ( मिताक्षरा २११८० ) ।
कार्यकारणभावः – यत्किचिनिष्ठ कार्यतानिरूपितकारणत्व यत्किंचिनिष्ठका-
रणतानिरूपितकार्यत्व एतदन्यतरात्मको धर्मः । यथा कार्यकारणभावाद्वा
स्वभावाद्वा नियामकात् । अविनाभावनियमो दर्शनाभ न दर्शनात् ॥
इत्यादौ घूमघूमध्वजयोः कार्यकारणभावः ( सर्व० सं० १० १६
बौद्ध० ) । अत्र व्युत्पत्तिः कार्य च कारणं च तयोर्मावः इति द्रष्टव्या ।
अयं च हेतुहेतुमद्भाव इत्यप्युच्यते । एकस्म स्वकारणापेक्षया कार्यत्वे
तदपेक्षया चान्यस्य कारणत्वम् इति ( वाच० ) । अत्रेदं बोभ्यम् ।
कार्योत्पत्तिनिश्चयेनाविनाभावो निश्चीयते । तदुत्पत्तिनिश्चयश्च कार्यहेत्वोः
प्रत्यक्षोपलम्भानुपलम्भपञ्चकनि
बन्धनः । तथाहि कार्यस्योत्पत्तेः प्रागनुप-
लम्भ: कारणोपलम्मे सत्युपलम्भः उपलब्धस्य पश्चात् कारणानुपलम्भा-
दनुपलम्भः इति पञ्चकारण्या घूम घूमध्वजयोः कार्यकारणभावो निधीयते
( सर्व० सं० पृ० १७ बौद्ध० ) इति ।